________________
187
षष्ठमाहिकम्
____ 'दृष्टा वाक्यविनिर्मुक्ता न पदार्थविना क्वचित्' इति ॥,
तदेषा वाक्यार्थबुद्धिः पदार्थप्रतीति न व्यभिचरति। व्यभिचरति तु पदप्रतीतिमिति न तत्कार्या भवितुमर्हतीति ॥
... [पदार्थानामेव वाक्यार्थबुद्धिजनकत्वम् ] .. यदप्युच्यते-प्रत्येक व्यभिचारात्, समुदितानामसाधारण्यात्* न पदार्थानां वाक्यार्थावगतिहेतुत्वमिति-तदप्ययुक्तम्-प्रत्येकं तावत् गमकत्वं नेष्यत एव' । समुदितानां त्वसाधारण्यं भवदपि न नः क्षतिकरम् । न होते लिङगवत् संबन्धग्रहणमपेक्षमाणा अवबोधकाः, यदसाधारण्यानावकल्पेत। किन्तु अगृहीतसंबन्धा अपि आकाक्षायोग्यतासन्निधितात्पर्यपर्यालोचनया परस्परं संसृज्यन्ते । स एव वाक्यार्थः, यः सं सृष्टः पदार्थसमुदायः, इतरविशिष्टो वेतर इति।। . नाप्यशाब्दत्वमित्थं वाक्यार्थप्रतीतेराशङकनीयम्, शब्दावगतिमूलत्वेन तस्याः शाब्दत्वात्। शब्दात् पदार्थप्रतिपत्तौ वाक्यार्थप्रतिपत्तिरिति सर्वमनवद्यम् । तदुक्तं--पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापा. राणि। अथेदानीमवगताः पदार्था एवं वाक्यार्थमवगमयन्ति (शा. भाः 1-1-25 ) इति ॥
* तथाच अनुगतरूपमन्तरा न तत्रान्वयव्यतिरेकाधीनकारणत्वं निश्चेतु शक्यम् ॥
* संसृष्टः इति खले कपोतन्यायेन संसर्गस्य वाक्यार्थत्वपक्षे । इतर इत्यादि खण्डवाक्यार्थबोधपूर्वकमहावाक्यार्थबोधपक्षे ।।
एवं-च,
सं-ख.