________________
186
'न्यायमञ्जरी परानुसन्धानमतिक्लिष्टमदृष्टपूर्वमिति दुर्घटमेतत् । व्यवहितपदोच्चारणे तु दृश्यते वा वाक्यार्थप्रतीतिः, यत्र पूर्ववर्णानुसन्धानगन्धोऽपि नास्ति । तस्मान्न वर्णा वाक्यार्थबुद्धिहेतवः ॥
[वर्णानां वाक्यार्थबोधजनकत्वानुपपत्तिः] अपि च पदार्थ वाक्यार्थं च प्रतिपादयन्तो वर्णाः-युगपत् प्रतिपादयेयुः, क्रमेण वा ? तत्र सकृदु'च्चारितानां युगप*दुभयकरणमनुपपन्नम् , अशक्यत्वात् ।।
क्रमपक्षेऽपि पूर्व चेत् वाक्यर्थप्रतिपादनं, तदयुक्तम् – अनवगतपदार्थस्य वाक्यार्थप्रत्ययादर्शनात्। अथ पूर्व पदार्थप्रतिपादनं, ततो वाक्यार्थप्रत्यायनं, हन्त तर्हि पदार्थप्रत्ययादेव वाक्यार्थबुद्धः सिद्धत्वात् । किमिति पुनः व्यापारान्तरे श्रम आश्रीयते। तस्मात् पदार्थप्रतिपादनपर्य वसितसामर्थ्यानि पदानि । पदार्थेभ्यस्तु वाक्यार्थप्रत्यय इति सिद्धम् ॥
[वर्णानामनुपस्थितावपि वाक्यार्थज्ञानसंभवः] अपि च अन्वयव्यतिरेकाभ्यामेवं अवगम्यते - यत् पदार्थपूर्वको वाक्यार्थ इति । यो हि मानसादपचारातां श्रुतेष्वपि पदेषु पदार्थान्नावगच्छति, नावगच्छत्येव वाक्यार्थम्। यस्तु अश्रुतेष्वपि पदेषु प्रमाणान्तरतः पदार्थान् जानीयात् , जानात्येवासौ वाक्यार्थम् ॥
'पश्यतः श्वेत मारूपं हेष शब्दं च श्रृण्वतः। खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः॥' (श्लो. वा-वाक्य-335)
* उभयं-पदार्थप्रतिपादनं, वाक्यार्थप्रतिदादनं च॥
अपचारः-अनवधानादिः॥ * 'आ'-इति ईषदर्थे । अस्पष्टरूपमिति यावत् ॥
1 चा-ख,
ति-ख.