________________
185
षमाह्निकम्
- वाक्यार्थबोधविचारः -
[ पदार्थनां वाक्यार्थबोधजनकत्वपक्षः] एवं स्फोटे प्रतिहते, वर्णेषु वाचकेषुः स्थितेषु कश्चिदाह-वाढं वर्णेभ्यः पदार्थप्रतीतिरस्तु । वाक्यार्थप्रतीतौ न तेषां सामर्थ्यम् ॥
कुतस्तहि वाक्यार्थावगतिः ? पदार्थेभ्य इत्याह । - तथा च वर्णानां पदार्थप्रतिपत्तौ चरितार्थत्वात् न वाक्याथै सामर्थम् । • अपरिम्लानसामर्थ्यास्तु पदार्था आसते। ते वाक्यार्थबुद्धेविधातारः ||
*अर्थापत्त्या हि वर्णानां कार्येषु शक्तयः कल्प्यन्ते । तत्र पदार्थबुद्धेरन्यथानुपपन्नत्वात् यथोक्तनीत्या वर्णानां तत्प्रतिपादने शक्तिरवगम्यते। वाक्यार्थप्रतीतिः पुनरन्यथाऽप्युपपद्यमाना 'न तत्र तेषां शक्ति मुपकल्पयितुमर्हति ॥
. [र्णानां वाक्यर्थबोधजनकत्वासंभवः । किच किमेकमेव संस्कारमादधाना वर्णाः पदार्थ वाक्याथ च . बोधयन्ति, भिन्नं वा? तत्र च
एकयैव हि संस्कृत्या कथं कार्यद्वयं भवेत् ।
न चैषां पूर्वसंस्कारात् अन्योऽस्तीति प्रतीयते ॥ . वाक्यार्थप्रतीतेरन्यथापि भावात् न नानासंस्कारकल्पनाबीजमस्ति । - अपि च पदेषु पूर्ववर्णेषु नातिदूरमतिकान्तेषु बुद्धयोपसंहर्तुं शक्येषु घटमानं अन्त्यवर्णवेलायामनुसंधानं वाक्येषु पुनरतिचिरतरतिरोहिताक्षरपर
* अनन्यथासिद्धौ ह्यन्वयव्यतिरेको कार्यकारणभावनिर्णायको॥
1
-क,
तत्र-क.