SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 184 [ स्फोटवादोपसंहारः ] तदास्तामियं ' शब्दब्रह्म' चर्चा । प्रकृतमनुसरामः ॥ इति विततया वर्णा एते धिया विषयीकृता: दधति पदतां वाक्यत्वं वा त एव च वाचकाः । न च तदपरः स्फोट: श्रोत्रे विभात्यवबोधने न च $ विधिहतो वाच्ये बुद्धि विधातुमसौ क्षमः ॥ - इति स्फोटनिराकरणम् - पश्यन्तीति तु निर्विकल्पकमतेर्नामान्तरं कल्पितं । विज्ञानस्य हि न प्रकाशवपुषः वानूपता शाश्वती । * जातेऽस्मिन् विषयावभासिनि ततः स्याद्वाऽवमर्शो गिरः नस्याद्वापि न जातु वाग्विरहितो बोधो जडत्वं स्मृशेत् ॥ न्यायमञ्जरी * विषयप्रकाशके ज्ञाने जाते, तत्र शब्दस्य परामर्शः स्यात् न वा न तत्र निर्बन्धः | परन्तु शब्दाविषयकत्वमात्रात् विषयाविषयकत्वं न भवेत् । शब्दान मुद्धा प्रतीतिः स्यादेव || 1 * जडत्वं घटादिवन्निर्विषयत्वम् ॥ + विततया - एवं विस्तरेण प्रतिपादितया रीत्या वर्णाः धिया विषयीकृताः पदतां वाक्यतां वा दधति । न स्वतिरिक्तं पदं वाक्यं वा । तत् पदतामित्यादेर्विशेषणम् ॥ 'कृताम्' इति पाडे $ विधिहतः - दुर्भगः । असौ - स्फोटः ॥ रे वर्णांक ० ब्र-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy