________________
षष्ठमाह्निकम्
ध्य. योपदेश संस्कृतमतेः वर्णानुमापिका भवन्ति । तथा संबन्धग्रहणात् रेखानुमितेभ्यश्च वर्णेभ्यः अर्थप्रतिपत्तिरिति नासत्यास्सत्योपायाः ॥
'अयं गकार: * इति तु सामानाधिकरण्यभ्रमः लिङ्गलिङगिनोरभेदोपचारात् । यथा प्रस्थमिताः सक्तवः प्रस्थशब्देनोच्यन्ते, तथा रेखातोऽपि गकारानुमानात् रेखैव गकार इत्युच्यते । एवमनिष्यमाणे लिप्य - नभिज्ञस्यापि ततोऽर्थप्रतिपत्तिः स्यात्, रेखानामसत्यवर्णानां विद्यमानत्वात् । न चैवमस्ति । तस्मात् वर्णानुमानपुरस्सरैव रेखाभ्योऽर्थावगतिः । अभ्यस्तत्वाद्विषयस्य, सक्ष्मत्वाच्च कालस्य क्रमो न लक्ष्यते, न त्वन्यथा ततोsवगतिः । तस्मात् पारमार्थिकत्वात् पदतदर्थानां न निरवयवौ attaraiविति स्थितम् ॥
यत्पुनः वाक्यभागपदवर्णापह्नववर्त्मना शब्दब्र' ह्येवाद्वयमुप' दर्शयितुमुपक्रम्यते-- तत्र पुरस्तात् सविस्तरं समाधिमभिधास्यामः ||
[ वाचस्त्रैविध्यतात्पर्यम् ]
यत्पुनरवादि वाचस्त्रैविध्यं - तदपि नानमन्यन्ते । : वाग्वागिति प्रसिद्धा हि ॥
183
अन्तरसंजल्पो वर्ण्यते मध्यमा वाक् सेयं बुद्ध्यात्मा नैष वाचः प्रभेदः । बुद्धिर्वाच्यं वाचकं चोल्लिखन्ती रूपं नात्मीयं बोधभावं जहाति ॥
* रेखायामिति शेषः ॥
+ उल्लिखन्ती बुद्धिः इत्यन्वयः ॥
1 हा उ-क.
एकैव वैखरी