SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 182 न्यायमञ्जरी नामत्वेऽपि 'स' इति 'राम' इति च द्वे पदे। तयोरन्यद्रूपम् । सह रामेण वर्तत इत्येकपदेऽपि अन्यद्रूपमित्यभियोगविशेषवतां सर्व सुभगमिति नाशक्यः पदविभागपरिच्छेदः ॥ [वर्णविकृतावपि प्रत्यभिज्ञानसंभवः ] यदपि-'दध्यत्र' 'मध्वत्र' इति तथाविधपदरूदादर्शनेऽपि तदर्थसंप्रत्यय इत्युक्तम्-सोऽपि न दोषः-यतः ते एवैते पदे ईषद्विकृते, तत्प्रत्यभिः ज्ञानाच्चेति केचित् ॥ अथवा *इगन्तदधिमधुपदवत् यणन्तयोरपि विषयान्तरे साधुत्वात् , तथैव तद्विधात् व्युत्पत्ते: यणन्ते अपि पदे अर्थप्रतिपादके भविष्यत इत्यल. मेवंप्रायः कदाशाव्या हातैः ॥ [पदानामसत्यस्वानुपपत्तिः] अपि च पदानामसत्यत्वे किमर्थ एष तद्व्युत्पत्तौ इयान् प्रयत्नो वृद्धराधीयते ? असत्यमपि सत्योपायतां प्रतिपद्यत इति चेत् ,न –अदृष्टत्वात्अलिकाहिदंशादयः सत्यमूर्छाहेतवो येत्रोदाहृताः, ते तथा न भवन्ति, विषाशङकाया अपि तत्कार्यहेतुत्वात् । शङका हि नाम बुद्धिः। बुद्धिश्च न न कारणम्। न चासती बुद्धिः ॥ . . [असल्यास्सत्यप्रतिपत्तिनिराकरणम् ] यदपि लिप्यक्षराणामसत्यानां सत्यार्थप्रतिपादकत्वमुच्यते-तदप्यनभिज्ञभाषितम् -- रेखास्तावत् स्वरूपतः सत्याः। ताश्च खिण्डिकोपा + खण्डिका-वेदभागः, अनुवाकवत् ॥
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy