________________
181
षष्ठमाह्निकम्
[अश्वकादिपदानां गमनिकाप्रदर्शनम् ] — यदपि-अश्वकर्णादौ अवयवार्थलोपात् अन्यत्राप्येवमिति कथितम्तदपि न चतुरश्रम्-अश्वकर्णशब्दो हि *क्वचिदर्थप्रकरणवशात् न्यग्भवदवयवशक्तितया तिरस्कृतावयवार्थवस्त्वन्तरव्यक्तौ न सर्वात्मनाऽवयवार्थाभावः ; व्यस्तत्वेन सामस्त्येन वा पुनः प्रयोगान्तरे तदर्थसंप्रत्ययदर्शनात् । 'अश्वमारोह' 'कणे कुण्डलं' इति व्यस्तयोः प्रयोगः। तुरगश्रोत्रे तु प्रतिपिपादयिषिते 'अश्वकर्णः' इति समस्तप्रयोगोऽपि तदर्था. परित्यागी दृश्यते इति न सर्वात्मना निरर्थका भागाः ।।
.. . [प्रकृतिप्रत्ययादिनिर्णयोपायः ]
यत्पुनः अन्वाख्यानविसंवादात् प्रकृतिप्रत्ययविभागनियमो नावकल्पत इति—एतदपि न युक्तम्-आप्ततरोक्तीनां प्रामाण्यात् । त्रिमुनिव्याकरणमिति पाणिनिमतमेव हि प्रकृतिप्रत्ययविभागं अ'वितथं प्रत्येध्यामः । कियत्यपि चांशे प्रायेण सर्वेषामन्जाख्यातॄणामविवादः। विकरणादिविसंवादमात्रं त्वकिचित्करम् । अतः पारमार्थिकत्वात् प्रकृतिप्रत्ययांशयोः न कल्पनामात्रेण पृथक्करणम् ॥
[पदविभागव्यवस्थोपायः] . यदप्यवणि-वर्णसामान्यात् पदविभागज्ञानं दुर्घट-कालेनदन्ति
नागाः' इति तदप्यसारम-स्वरस्मरणादीनां पदभेदावगमोपायानां ____ संभवात् । *सरामः' इत्याख्यातस्य अन्यत् स्वरादिरूपम् , नाम्नोऽन्यत् ।
* ओषधिविशेषेऽपि अश्वकर्णसादृश्यादेव तत्प्रयोग इति न सर्वथाऽर्थशून्यत्वम् ॥
* सुगतौ इतिधातोः उत्तमपुरुषबहुवचने आख्यानस्यान्तोदात्तत्वम् । बहुव्रीहिरवे आयुदात्तत्वम् । अन्यत्र उदात्तत्वम् ॥
___1 गं-क,
अपि-ख.