________________
180
न्यायमञ्जरी
- [पदवाक्ययोस्सावयवत्वे युक्त्यन्तरम् ]
इतश्च सावयवौ वाक्यवाक्याथै, *पदोपजननापायाभ्यां तदर्थोपजन नापायदर्शनात्। अनयैव युक्त्या पदभागा अपि प्रकृतिप्रत्ययादयः तात्त्विका इत्यवगन्तव्याः, न कल्पनामात्रप्रतिष्ठाः। वृक्षं, वृक्षणेत्यत्र प्रकृत्यर्थानुगमे प्रत्ययार्थो भिद्यते। वृक्षं, घटमिति प्रत्ययार्थानुगम प्रकृत्यर्थो भिद्यते। तत्र योऽर्थों यं शब्दमनुगच्छति, स तस्यार्थ इत्यबसीयते। तत्कथमसत्या भागाः ?
___ [वर्णानुगममात्रं नार्थानुगमहेतुः] | यत्पुनः-कूपसूपयूपादौ सत्यपि वर्णानुगमेऽर्थानुगमो न दृश्यते । . तेन चाकारणमर्थप्रतीतेवर्णानुगम इत्युक्तम् -- तदयुक्तम् -- यतो .
नान्वयव्यतिरेकाभ्या मनुत्पन्ना प्रतीतिरुत्पाद्यते, येन कूपादौ तदुत्पादन माशङक्येत। प्रसिद्धायां तु प्रतिपत्तौ वाचकभागेयत्तानियमपरिच्छेदेsनयोर्व्यापारः। न चैकत्र वर्णानुग माद ऑनुगमो दृष्ट इत्यन्यत्रादृश्य मानोऽपि हठादापादयितुं युक्तः ॥
रेणुपटलानुगतपिपीलिकापडक्तिद्वारकव्यभिचारोद्भावनमपि न पेशलम्-पांसुपटलविकलपिपीलिकापङक्तिदर्शनेन तस्याः तत्प्रतीतिकारित्वाभावनिश्चयात् । करिकरभतुरगप्रभृतीनां तु प्रत्येकं व्यभिचारेऽपि बहु प्राणिरूपसामान्यानपायात् तत्कारण मेव धूलीपटलमवगम्यते ।।
* पदोपजननापायौ-पदेन साकमन्वयव्यतिरेको ।
+ अन्वयव्यतिरेकौ हि ज्ञापकौ । न तु कारको। अन्वयव्यतिवेकाभ्यां नोत्प धत इत्यन्वयः॥
* अन्यथा करितुरगादीनामपि तद्धेतुत्वं न स्थादित्यर्थः ।।
1 गु-क,
मे-अ-ख मात्दा-घ,
य-च.