________________
षष्ठमाहिकम्
179 न्तराणामर्थोऽर्थप्रकरणादिना लभ्यते, तत्र यावदप्राप्तं तावत्पदमेव केवलं उच्चारयन्ति। ग्रन्थग्रहणावसरेषु च स्वरूपावधारणमपि फलवद्वर्णानाम्। मा वा फलवत्त्वं पदवर्णानां भूत-तथापि रथावयवानामिव रथकार्येष्वपर्याप्तशक्तीनामपि* स्वरूपसत्त्वमनिवार्यम। कार्यान्तराय रथात रथावयवाः प्रभवन्तीति चेत्-पदवर्णा अपि कार्यान्तरे प्रभविष्यन्ति। रथ कार्यकदेशमात्रां कामपि रथावयवाः कुर्वन्तीति यद्युच्येत–पदान्यपिवाक्यकार्यैकदेशं कमपि कुर्वन्त्येव। वर्णा अपि केचिदर्थवन्तो भवन्त्येव । तस्मानासन्तः पदवर्णाः ॥ .
.. [वर्णानां सावयवत्वप्रसङ्गपरिहारः] यत्पुनरवादि-वाक्यस्येव पदानि, पदानामिव वर्णाः, वर्णानामप्यवयवान्तराणि स्युरिति-तदिदमपूर्वं पाण्डित्यम्। न हि घटाः सावयवा इति परमाणुभिरपि सावयवैर्भवितव्यम्। 'परमाणवो वा निरवयवा इति घटेरपि निरवयवैर्भवितव्यम्। उपलब्ध्यनुपलब्धी हि वस्तूनां व्यवस्थापिके। यद्यंथोपलभ्यते, तत्तथा भवति। यद्य था नोपलभ्यते, तत्तथा न भवति। वाक्यपदयोश्च भागा उपलभ्यन्ते, न वर्णानाम् । तथा युक्तमेतत् (श्लो. वा. स्फोट-10)
'अल्पीयसाऽपि यत्नेन शब्दमुच्चारितं मतिः ।
यदि वा नैव गृह्णाति वर्ण वा सकलं स्फुटम्' इति ॥ तस्मात बालिशचोदितमिदं-वर्णस्याप्यवयवा भवन्तु, पदवाक्ययोरपि वा मा भूवन्निति ॥
* प्रत्येकमिति शेषः॥
1 उप-ख.