________________
178
न्यायमञ्जरी [चित्रादीनामपि सांशत्वम् ] चित्रेऽपि हरितालसिन्दूरादिरूपं, पानके *त्वगेलादिरसः, ग्रामरागेऽपि षड्जर्षभगान्धारादिस्वरजातं पृथगवगतमिति न ते निर्भागदृष्टान्ताः। चित्रादिबुद्धयस्तहि दृष्टान्ता इति चेत् - बाढम् - वाक्यार्थबुद्धिरपि निर्भागेष्यत एवास्माभिः, बुद्धीनां निरंशत्वेन सर्वासामनवयवत्वात् । बुद्धिविषयीकृतस्त्वर्थो दृष्टान्तदाान्तिकयोः सावयव एव। तस्मान्न निर्भागौ वाक्यवाक्यार्थाविति युक्तम् ॥
[पदशक्तिगहोऽपि वृद्ध व्यवहारादेव ] यदप्यभ्यधायि–वृद्धव्यवहारतः संबन्धबुद्धिः वा' क्यवाक्या र्थयोरेव, न पदतदर्थयोः ; पदेन व्यवहाराभावादिति – तदप्यसाधु - वाक्यादपि व्युत्पत्तिर्भवन्ती पदार्थपर्यन्ता भवति । एवं हि पदतदर्थसंस्कृतमतेर.. भिनवविरचितादपि वाक्यात् वाक्यार्थप्रतीतिरुपपत्स्यते । तदावापोद्वाप'चक्र वैचित्र्येण वाक्यानामानन्त्यात् अशक्या प्रतिवाक्यं व्युत्पत्तिः । सापि नापेक्षिष्यते । इतरथा हि साऽवश्यमपेक्ष्येत ॥
[पदानामपि प्रयोगार्हत्वम् ] . यत्तु-केवलं पदं न प्रयुज्यत इति तदसत्यमिति–तदप्यसत्-महा. वाक्यस्थाने अवान्तरवाक्यं न प्रयुज्यत्त इति तदप्यसत्यं स्यात् । स्वार्थे तत्प्रयुज्यत इति चेत्-पदमपि स्वार्थे क्वचित् प्रयुज्यत एव; यत्र पदा
* 'त्वक' परिकरसुगन्धद्रव्यम् ॥ * वाक्यार्थस्याखण्डस्य खण्डिततत्वादिति हेतुः ॥ वाक्यार्थस्य पदार्थातिरिक्तत्वे, अखण्डत्वे च वाक्यशक्तिग्रहः अशक्य एव ।।
' क्या-ख,
परतन्त्र-ख.