________________
177
षष्ठमाह्निकम्
[बुद्धेरैक्येऽपि पदादेः नैक्यम् ] - ननु ! अभिन्नत्वाद्वाक्यार्थबुद्धेः विषयभेदाभेदानुवृत्तित्वाच्च बुद्धि'भेदाभेदयोः अभिन्नो वाक्यार्थः स्यात्-बाढम्-अभिन्नः, न त्वनवयवः; घटादेरभिन्नस्यापि सावयत्वात् ॥
[शब्दानां सांशत्वनिरूपणम् ] .. यत्तु निरवयत्वमुच्यते-तदतीव संवित्परामर्शकैशलशून्यं व्याहृतम्
अंशास्सन्ति न सन्तीति चिन्ताऽत्यन्तमसङगता।
निरंशस्त्वस्ति नास्तीति युक्तं चिन्तयितुं सताम् * || __पदतदर्थभेदस्य प्रतिवाक्यं विस्पष्टमाभासमानत्वात् अनुपगृह्यमाणावयवविमागयोश्च वाक्यवाक्यार्थयोरनवभासमानत्वात् ।।
- [पदवाक्ययोस्सांशस्वं न भ्रमसिद्धम् ]
अस्त्ववंयवप्रतीतिः सा तु भ्रान्तेति चेत्-न-बाधकाभावात् । : भान्तेश्च बीजं किमपि वक्तव्यम्। सादृश्यमिति चेत् ; कस्य केनेति न '. विद्यः। यदि हि क्वचिन्मुख्या अवयवाः प्रसिद्धा भवेयुः, तत्सादृश्यात् इतरत्र तदभावेऽपि भ्रम इति गम्येत-न त्वेवमस्ति-सर्ववाक्यानामप्यमागत्वात्। नरसिंहेऽपि नरावयवाः सिंहावयवाश्च पृथक्पृथक् प्रत्य. मिनायन्ते । तद्वदिहाप्यभ्युपगम्यमाने नूनं क्वचिद्वाक्ये सत्यत्वमवयवा. नामेषितव्यम् ॥
'सावयवस्वं प्रत्यक्षसिद्धम् । निरंशत्वं तु युक्तिसिद्धम् । तत्र तु विप्रतिपत्तिः स्यात् । अतः निरंशस्वं कथमित्येव विचारणीयम् ॥
विन्मत इति शेषः॥
1 द्धय-ख.
12