________________
176
न्यायमञ्जरी
प्रतीतिरिति (पु. 140) तदपि न सम्यक्-स्मर्यमाणानुभूयमानवर्णजनि ते वेय'मर्थप्रतीतिरित्यवोचाम, नाभिन्न पदपरिच्छेदपविकेति कुत इतरेतराश्रयत्वय् ?
[बुरेकत्वानेकत्वनिदानम् ]
ब्रूयात्-पदवाक्ययोरेकत्वमन्तरेण कथं पदवाक्यार्थप्रतोतिरेकरूपा भवेदिति-सोऽयमतीव मुग्धालापः-प्रतीतिभेदाभेदौ हि विषयभेदाभेदावनुरुध्येते, नोपायभेदाभेदौ । भिन्नैरपि लोचनालोकान्तःकरणप्रभृतिभिरुपायैरभिन्नार्थग्राहिणी बुद्धिरुपजन्यत एवा। तदिह पदार्थबुद्धेरेका त्वार्त पदार्थ एको भवतु, योऽस्या विषयः। न त्वेकं पदं, यत् कारणमिति । वाक्यार्थबुद्धरप्येकत्वात् एको वाक्यार्थो भवतु, न त्वेकं वाक्यम्। वर्गीकरणकारणं क्रमभाविनां बहूनां वर्णानामेतत् भवति, यत् एकार्थतिपादकत्वं, न त्वभेदमेव पदवाक्ययोर्गमयतीति ॥ .
[शब्दार्थयोरभेदासंभवः] विप्रलब्धा एव च वैयाकरणाः पदवाक्ययोरप्यभेदं मन्यन्ते किल शब्दादनन्यभूत एव शब्दार्थ इति–स पुनरेषां व्यामोह एव', तद्भदस्य दृढप्रमाणसिद्धत्वात् । शब्दाध्यासस्तु प्रतीतिविरुद्धत्वेन नेष्यते-इत्यलं तत्कथया। तस्मात् प्रत्यक्षगम्योऽपि न स्फोट इति सिद्धम्॥ ..
* अभिन्नं-अखण्डम् ॥ + एवं एकेनैव चक्षुषा घटोऽपि गृह्यते, पटोऽपि गृह्यते ॥ * एकत्वं अखण्डत्वम् ॥
शब्दार्थयोरविनाभावात् ॥
1 तेय-ख
हः-ख,