SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ माह्निकम् मैवम् — स्फोट एवासौ न शब्दत्वं सामान्यं तत् । सामान्यं हि तदुच्यते, यत्रैकव्यक्तिदर्शने व्यक्त्यन्तरानुसन्धानम्, शाबलेयग्रहणे बाहुयस्यैव । इहतु न गकारग्रहणे न वकारानुसन्धानमिति नेदं सामान्यम् । एकरूपस्त्वयं प्रतिभासः शब्दतत्त्वविषय एवं । शब्दतत्त्वं च स्फोट इत्युच्यते ॥ 175 [ शब्दत्वं न स्फोटरूपम् ] आ ! ज्ञातम् अमुनैव हि भयेन कैश्चित् स्फोटशकिभिः शब्दत्वसामान्यमपह्नुतम् । अस्थान एव त्वयं संत्रासः । न हि शब्दवं स्फोटः । - प्रतिवर्णं हि शब्दः शब्द इति बुद्धिरस्ति, न च वर्णस्फोटः । तदिदं शब्दत्वसामान्यमेव शब्दबुद्धेरालम्बनम्, न स्फोटः ॥ सामान्य सिद्धौ तु व्यक्त्यन्तरानुसन्धानमकारणमिति प्रागेव निर्णीतम् । तस्मान्नशब्दबुद्धावपि स्फोटोsवभासते, पदवाक्यबुद्धा विवेति ॥ 2 एकच सत्यमाह यदियमेककार्यकारित्व निबन्धना, वनपृतनादि . - बुद्धिसमानयोगक्षेमैव पदवाक्यबुद्धिरिति । न च जात्यादिबुद्धि' व 'समाश्वासः, वैलक्षण्यस्य दर्शितत्वात् ॥ [ पदवाक्यादिष्वेकत्वबुद्धेरुपपादनम् ] यदपि - एक कार्यकारित्वनिबन्धनायामभेदबुद्धौ इतरेतराश्रयपरि० चोदनं - एकार्थप्रतीतिपूर्विका पदवाक्यबुद्धिः, पदवाक्य बुद्धिपूर्विका चैकार्थ * प्राभाकरैः ॥ 1 तत्त्व - ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy