________________
174
न्यायमञ्जरी
आलम्बनीभवेयुरित्युक्तम्। न युक्तमुक्तम्-इह हि शाबलेयादौ प्रतिपिण्डं गौरिति बुद्धिरुपजायमाना सकलपिण्डसाधारणं रूपं विपयीकरोतीति गोत्वसामान्यं तदिष्यते। एवं यदि प्रतिवर्ण* पदं पदंमिति, वाक्यं वाक्यमिति मतिरुपजायेत, जातिवत् , तहि पदं वाक्यं च सर्ववर्णवृत्ति किमपि रूपम व गच्छेम, न त्वेवमस्ति प्रतीतिः । यथा च तन्त्वाद्यवयवपरिघट्टितपटादिकार्यविषयमाद्यनयनसन्निपातसमय एव भेदग्रहरहित मवयविज्ञानमुदेति, तथा क्रमसमुच्चरदेकेकवर्णस्वरूपोपग्रहनिरपेक्षं यदि पदमिति, वाक्यमिति ज्ञानं भवेत् , तत् पदादिकमवयविनमिव पदं वाक्य मेकैकरूपमनुमन्यमहि, न त्वेवमस्ति। न हि तन्तुभिरिव पटः, वीरणरिव कटः, वर्णैः पदमारभ्यते ।।
[ वर्णानां स्वत एव भिन्नत्वम् ] यत्तु गौगौरित्येवंज्ञानमभेदग्राहि दृश्यते-तदेकाजुपाधेः। भिन्ना. जुपश्लेषे तु देवदत्त इत्यादौ नानाक्षरग्रहणमेव विलम्बितमनुभूयते। न चैवं पटादिबुद्धिषु तदवयवाः कदाचित् विच्छेदेनावभासन्ते। तस्मान्नावयवीव, जातिरिव वा पदं वाक्यमभिन्नमवभासते ।। .
[स्फोटस्य सामान्यरूपत्वनिरासः] ननु च याऽसौ शब्दशब्दात् बुद्धिः, सैवेयं स्फोटबुद्धिः ।। किमिदानीम् ?, यदेव शब्दत्वसामान्यं, स एव स्फोटः ?
* न हि प्रत्येकं वर्णेषु पदत्वस्य वाक्यत्वस्य वा प्रतिसन्धानं कस्यापि भवति ॥ + 'शब्दः' इति शब्दः शब्दसामान्यमाचष्टे, तदेव किलशब्दत्वम् ॥
1 भ्युप-ख.