________________
173
पठमाह्निकम्
श्रोत्रमनोभ्यां ग्रहणादसिद्धमवधारणमिति चेत्-न-*'समानजातीयव्यवच्छेदार्थत्वादवधारणस्य चक्षुरादीन्येव तेन व्यवच्छेद्यन्ते, न मनः ॥ . तथापि शब्दत्वे व्यभिचार इति चेत्-न-जातिमत्त्वे सतीति प्रक्रमलभ्यविशेषणापेक्षणात् । स्तनयित्नुनादप्रभृतिभिरपि न व्यभिचारः, तेषां शव्दत्वाभ्युपगमात्।। तदुक्तं भाष्यकृता-'द्विविधश्चायं शब्दःवर्णात्मा ध्वनिमात्रश्च' (न्य-भा-2-2-40) इति ॥
. [परोक्त शब्दलक्षण न सुष्टु] अर्थप्रत्यायकत्वं तु न लक्षणमित्युक्तम् , अगृहीतसंबन्ध. वर्णात्म न्यपि शब्दे तदभावेनाशब्दत्वप्रसङगात् । कालान्तरेण संबन्धबुद्धौ सत्यां च तस्यैव शब्दत्वमिति अव्यवस्थितमिदं लक्षणम् ॥
यदपि शब्दस्वरूपनिरूपणप्रसङगेन तदभिधेयानां जातिगुणक्रियादीनां शब्दताऽऽशङकनं, तत्परिहरणं च-तदपि किमाशयमिति न विद्मः: तेषामतिविभक्तरूपग्रहणात् ।। . अतः श्रोत्रग्राह्यस्य शब्दत्वात् स्फोटस्य च श्रोत्रग्राह्यत्वाभावात् वर्णवादिनामेव - 'शब्दादर्थं प्रतिपद्यामहे' इत्यनुकूलो लोकव्यपदेशः, न स्फोटवादिनामिति स्थितम् ।।
. [स्फोटस्य श्रीऋग्राह्यत्वाभावः ] कथं पुनः श्रोत्रग्रहणत्वं स्फोटस्य न मृष्यते ? यावता पर्द, वाक्यमिति श्रोताकरणकमेकाकारं ज्ञानं प्रत्यात्मवेदनीयमस्ति : न चास्य वर्णा
* समानजातीयत्वं बहिरिन्द्रियस्वेन ॥ मीमांसकैस्तु ध्वनेः वायुधर्मत्वमेव स्वीकृतम् ॥
1 चक्षु-ख.