________________
172
न्यायमञ्जरी संकलनाप्रत्ययोपारूढवर्णवाचकत्वपक्षेऽपि न दोषः। न हि भेदशब्दसहित एष शब्दशब्दः प्रयुज्यते-'गकारादिभ्यश्शब्दादथं प्रतिपद्याम'हे' इति । केवलस्तु जातिशब्द एकवचनान्तो बहुष्वपि वर्णेषु न विरुद्धः॥
किंच स्फोटपक्षे सुतरामनुपपन्नोऽयं व्यपदेशः ‘शब्दात्' इति, प्राति. पदिकार्थस्याभावात् । न हि वर्णवत् स्फोटे शब्दश'ब्दं प्रयुंजानो दृश्यते व्यवहर्तृजनः ॥
[स्फोटस्य शब्दरूपत्वमपि न प्रामाणिकम् ] अर्थप्रतिपत्तिहेतुत्वं शब्दलक्षणमसाधु; धूमादिभिर्व्यभिचारात् । अथापि प्रक्रमपर्यालोचनया श्रौत्रग्राह्यत्वविशिष्टमर्थप्रतिपत्तिहेतुत्वं शब्दलक्षणमभिधीयते; तदिदं स्फोटं प्रति न सिद्धम् ; तस्य श्रौत्रप्रत्ययविषयत्वाभावात् । श्रोत्रग्राह्यत्वमेव च तदितरव्ययवच्छेदक्षममिति तदेव युक्तं किमुभयोपादानेन ? श्रोत्रग्राह्यत्वं च वर्णेष्वेव नार्थान्तरस्येति वर्णा एव शब्दाः । तदुक्तम्-(श्लो-वा-स्फोट-9)
'परस्परानपेक्षाश्च श्रौत्रबुद्धया स्वरूपतः। वर्णा एवावसीयन्ते न पूर्वापरवस्तुनी'* इति ।।
[शब्दलक्षणपरिष्कारः] श्रोत्रग्राह्यत्वं शब्दलक्षणं सत्तादावप्यस्तीति चेत्-न-श्रोत्रेणवेत्यवधारणस्य विवक्षितत्वात् ।।
* शब्दहेतुः, तत्कार्याणि वा श्रौत्रबुद्धया न विषयीक्रियन्ते। * सत्ता-शब्दगतसत्तादिः ।।