________________
षष्ठमाह्निकम्
171 भेदव्यपदेशवशेन प्रतिव्यक्ति चाप्रयोग, सिद्धे समुदायशब्दत्वे, 'समुदायसमुदायिनोरभेदोपचारात 'आम्रादयो वनम्' इति युज्यते प्रयोक्तुम् । इह तु 'गकारादीनां शब्दः' इति न कदाचिदपि व्यतिरेकनिर्देशो दृश्यत हात समुदायशब्दत्वमघटमानम्। तत्सर्वथा वर्णशब्दवादिनामनुपपन्नोऽयं व्यपदेशः 'शब्दादथं प्रतिपद्यामहे' इति ॥
[वर्णानां वाचकत्वसमर्थनम् ] उच्यते-किमनेनोपपन्नेनानुपपन्नेन वा कृत्यम्। यद्ययमुपपद्यते, ततः किम् ? अथापि नोपपद्यते, ततोऽपि किम् ? न हि लोकव्यपदेशनिबन्धना वस्तुस्थितिर्भवति ॥
ननु ! शास्त्रकारा अप्येवमेव व्यवहरन्ति-भावमाख्यातेनाचष्टे' इति-न शास्त्रकारव्यवहारा दप्य प्रामाणिकोऽर्थः शक्यतेऽभ्युपगन्तुम् । कतरच्चेदं प्रमाणं-लोकव्यपदेशो नाम। अनुमानं तावत् प्रतिक्षिप्तम् । प्रत्यक्षमपि प्रतिक्षेप्स्यते। न चान्यत् स्फोटसिद्धौ प्रमाणं क्रमते . तदस्थानेऽयं लोकव्यपदेशनिरूपणेन स्फोटाटोपः ॥
[वर्णानामेव अर्थप्रत्यायकत्वं अनुभवानुगुणम् ] . न चात्यन्तमसङगतोऽयं वर्णपक्षे लौकिको व्यपदेशः। पूर्ववर्ण. जनितसंस्कारसहिते तावदन्त्यवर्णे वाचके सुसङगत एवायं व्यपदेशः, तस्य शब्दत्वात, एकत्वाच्च ।।
- * किन्तु प्रमाणाधीनेति शेषः ॥
भवस्पक्षे हि संस्कारेणाचष्टे' इति स्यात् ॥