________________
170
'न्यायमञ्जरी यदप्यमाणि-'शब्दादथ प्रतिपद्यामहे' इति व्यवहारः स्फोटपक्षसाक्षितामालम्बत इति तदप्यसारम्-वर्णानां वाचकत्वे यथोक्तनीत्या साधिते तत्पक्षेऽपि तथा व्यवहारोपपत्तेः ॥
[वर्णानां वाचकत्वाक्षेपः] नन् ! कथमुपपत्तिः ? संस्कारस्तावत् न शब्दशब्देनोच्यते। न . हि तथा लोके प्रसिद्धिः। *संस्कारे च वाचके व्युत्पत्तिरपि दुरुपपादा। . परावगतिपूर्विका हि शब्दात् स्वावगतिः। न च परस्थः संस्कारः परस्य प्रतीतिमुपजनयन् ग्रहीतुं शक्यः, परोक्षत्वात् ॥
वर्णेष्वपि शब्दशब्दो वर्तमानः प्रतिवर्णं वा वर्तेत, वर्णसमुदाय वा ? • प्रतिवर्ण वर्तमाने च शब्दशब्दे न शब्दादर्थप्रतिपत्तिः स्यात् ; एकस्य . वर्णस्य वाचकत्वायोगात्। समुदाये तु न वर्तितुमर्हति शब्दशब्दः, जातिशब्दत्वात्। द्विवचनबहुवचनान्तव्यक्तिशब्दप्रयोगे हि तस्मात्सामानाधिकरण्येन न जातिशब्द एकवचनान्तः प्रयुज्यते। न हि भवति 'देवदत्तयज्ञदत्तौ पुरुषः' इति, 'धवखदिरपलाशा वृक्षः' इति–तथा ‘गकारौकार विसर्जनीयाः शब्दः' इत्यपि न ॥
— 'वनं वृक्षाः' इति दनशब्दवत् तहि समुदायवाची भविष्यति शब्द. शब्दः, न जातिशब्दवत् - इति चेत्-न-तत्र समुदायव्यतिरेकनिर्देशदर्शनात्-'आम्राणां वनम्' 'कपित्थानां वनम्' इति । न चैवमिह व्यतिरेकनिर्देशोऽस्ति-'गकारादीनां शब्दः' इत्यदर्शनात् ।।
अथ ब्रूयात्—'आम्रादयो वनम्' इत्यभेदेनापि वनशब्दः प्रयुज्यते । तथेहापि 'गकारादयः शब्दः" इति प्रयोक्ष्यते – एतदपि नास्ति-वनादौ
* शब्दानां नष्टत्वात् , तत्संस्काराणामेव वाचकत्वं सिद्धं भवति ॥ ,
1श-ख,
शब्दा:-च,
युज्यन्ते-च.