SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ 169 षष्ठमाह्निकम् सर्वथा व्युत्पत्त्यनुसारेण वर्णानामर्थप्रत्यायकत्वं तद्यथा पुरा दृष्टं, तथाsभ्युपगम्यत इति। तदुक्तं-'यावन्तो यादृशाः' इति ।। [वर्णानां प्रत्यायकत्वं अनुभवसिद्धम् ] यत्त्वत्र *प्रतीपमुक्तं-'कियन्तः कीदृशाः' इति-तत्र प्रतीतयः प्रष्टव्याः, न तपस्विनो वयमिति यत्किचिदेतत् ।। - यत्पुनरभ्यधायि (पु. )-क्रमव्यत्यासप्रयुक्ता अपि वर्णा प्रत्यायका भवेयुः। क्रम एव वा स्फोटः स्यात्-इति तदपि न पेशलम्-क्रमो हि नाम कालभेदः। न च काल एव स्फोटो भवितुमर्हति ॥ . [स्फोटकल्पकस्यान्यथासिद्धिः ] क्रमोऽपि च न स्वतन्त्रः प्रतिपादकः, पदार्थान्तरवृत्तिर्वा ; किन्तु वर्णाश्रित एव । तत्र चोक्तम् (श्लो. वा-1-1-8-श्लो-265-266) द्वये सत्यपि तेनात्र विज्ञेयोऽर्थस्य वाचकः । वर्णाः किन्नु क्रमोपेताः किन्नु वर्णाश्रयः क्रमः ? क्रमः क्रमवतामङगमिति किं युक्तिसाध्यता? धर्ममात्रमसौ तेषां न वस्त्वन्तरमिष्यते || तस्मात् ये यावत्क्रमका यमर्थं प्रत्यायन्तो दृष्टा वर्णाः, ते तत्क्रमका वर्णास्तमर्थं प्रत्याययिष्यन्तीति न स्फोटादर्थाव गतिः। तदेवं कार्यानुमानं, अर्थापत्तिर्वा न स्फोटसिद्धये प्रभवतीति सिद्धम् ॥ * प्रतीपं—'यावन्तो यादृशाः' इत्यस्य प्रतिकक्ष्यतया ॥ * क्रमविशिष्टा वर्णा वाचकाः ? अथवा वर्णानां क्रमः वाचकः ? इति पक्षद्वये क्रमस्य वर्णाश्रितस्वेनाप्रधानत्वात् प्रथमपक्ष एव साधीयान् ॥ 1 गतिरिति-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy