________________
168
न्यायमञ्जरी
तिशयायां तस्यां प्रकटीभविष्यन्ति । स्फोटस्तु एकवर्ण इव निरंश इति तत्र को बुद्धेरतिशययोगः तस्मादयमपि न संगतो दृष्टान्तः ॥
[ स्फोटस्य ध्वनिव्यङ्ग्यत्वपक्षनिरासः ]
येsपि च मन्वते - ध्वनिव्यङ्ग्यत्वात् स्फोटस्य न तत्र वर्णविकल्पावसर इति - तेsपि न सम्यग्दर्शिनः - * पराणु'द्य' वर्णप्रतीति ध्वनिभ्यः शब्दप्रतीतेरनुत्पादात् । अतिद्रुतोच्चि चारयिषयाऽनुपलभ्यमानवर्णविभागाच्च शब्दादर्थंप्रत्ययाभावात् ॥
[ वर्णनामसत्यत्वनिरास: ]
अथ ध्वनयः शब्दव्यक्तिमादधानाः स्थानकरणानुरोधेनासत्यमेव वर्णभेदमुपदर्शयन्ति, श्यामादिरूपमिव मुखस्य खङ्गादृय इत्युच्यते - तदप्य सत्-असत्यत्वे निमित्ताभावात् । प्रतीयन्ते हि निर्बाधया बुद्ध या वर्णाः । तदतिरिक्तस्तु शब्दो न प्रतीयते । यश्व न प्रतीयते, सोऽस्ति ; ये च प्रतीयन्ते, ते न सन्तौत्युच्यमाने—शशो नास्ति, विषाणमस्तीति स्यात् । तस्मादयमपि न कल्पनागौरवपरिहारक्षमः पन्थाः । अतः सुष्टूक्तं शब्दकल्पनायां सा च, शब्दकल्पना च' इति ।।
तस्मात् स्फोटप्रतिपत्तौ यः क्रम आस्थेयः सः अर्थप्रतीत (वेवास्थीयतामिति किं तेन स्फोटेन ।।
[ वर्णनां बुद्धिकल्पितत्व पक्षनिरासः ]
अन्ये तु- [- उपलब्ध्यनन्तरसत्ताकानां वर्णानामर्थप्रत्यायकत्वमाचक्षते - तदिह नेष्यते, क्षणिकत्वाद्वर्णानां उपलब्धेरूवं सत्ताऽनुपपत्तेः ।
* पराणु - परित्यज्य ॥
+ उच्चरितस्य वाक्यस्य श्रवणे इति अर्थसिद्धम् ॥
1 भ्य: ख,
2
नाचक्ष-क.