________________
167
षष्ठमाहिकम्
'सद्भावव्यतिरेकौ च तथाऽवयववर्जनम् । तवाधिकं भवेत्तस्मात् यत्नोऽसावर्थबुद्धिष' इति ॥
[स्फोटवादे अर्थप्रतीत्यनुपपत्तिः] यत्पुनरवादि-प्रथमवर्णबुद्धिवेलायामेव व्यक्तं स्फोटतत्त्वं उत्तरोत्तरबुद्धिभिरतिशयिततरप्रत्यय विषयता नीयते, रत्नतत्त्ववदिति–स एष विषम उपन्यासः-रत्नस्य हि सावयवत्वात प्रथमप्रत्ययाविषयीकृतसूक्ष्म तरावयवविशेषग्राहिणां उत्तरोत्तर प्रत्य यानामस्ति तत्रावकाशः। स्फोटस्तु वर्णस्वरुपवदनंश इति तत्स्वरूपसर्वस्वमायेनैव वर्णेन व्यक्तम् । किमिदानीमन्ये वर्णाः करिष्यन्ति। एकदेशव्यक्तिस्तु निरवयवस्य*, वर्णस्येवन संभवति। यथोक्तम्-(श्लो-वा-स्फोट-10)
अल्पीयसाऽपि यत्नेन शब्दमुच्चारितं मतिः । • यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम्' इति ॥
योऽपि द्वितीयो दृष्टान्त उदाहारि-यथा अनुवाकः श्लोको वा थमसंस्थया गृहीतोऽपि "संस्थान्तराभ्यासैः स्फुटतरं परिच्छिन्नो भवति तथा स्फोटोऽपि प्रथमवर्णान्तरैतिशयिताभिव्यक्तिः भविष्यतीति-सोऽपि
न सदृशो दृष्टान्तः, श्लोकानुवाकयोरनंशत्वानुपपत्तेः। केचिदवयवा . वर्षात्मानः पदात्मानो वा प्रथमायां बुद्धावपरिस्फुरन्तः संस्थाभ्यासलब्धा
. * वाक्यस्येत्यध्याहारः॥
* अल्पीयसा-एकवर्णोच्चारणानुकूलप्रयत्नेनोच्चारितः यदा एको वर्ण तदैव समग्रमपि वाक्यं मतिः गृह्णीयात् , अथवा कदापि वा न गृह्णीयात् , वाक्यस्फोटस्य निरवयवत्वात् ॥
1 तां-ख,
विष-क,
३ संस्थाना-ख.
.