________________
166
न्यायमञ्जरी पश्यामहे तत्र कः संस्कार प्रति पक्षपातः? कश्च स्फोट प्रति विद्वेषः ? यदेष* कल्प्यते, नैष इति-उक्तमत्र (पुट-129) तेनैव सुगृहीतनाम्ना भाष्यकारेण 'शब्दकल्पनायां सा च, शब्दकल्पना च' इति ॥
[स्फोटवादे कल्पनागौरववर्णनम् ] ननु नास्ति कल्पनाद्वैगुण्यम् । संस्कारो हि यथाप्रसिद्धि स्थित एव । का तत्र कल्पना? न हि वयं स्मरणककारणत्वं संस्कारधर्ममतिलङधितवन्तः, भवन्त इव ॥
__ कथं न लङधितवन्तो भवन्तः? सर्ववर्णविषयकस्मरण'कारिता भवद्भिरपि कल्पितंव । यैव हि वर्तनी वर्णानामर्थप्रतीतों, सैव स्फोट. व्यक्तावपि। तां च कल्पयित्वा शब्दोऽन्यः कल्पित एवम्। अतश्चसंस्कारस्योभयवादिविदितस्य स्मरणकारित्वंमुल्लङघयं अर्थप्रत्ययकारित्वं केवल म स्माभिरभिहितम्। भवद्भिस्तु मूलत एवारभ्याभिनवं विश्वमुत्थापितम्- अपूर्वस्य शब्दस्य तावदस्ति त्वं, पुनर्वर्णव्यतिरिक्तत्वं, पुनरवयवशहित्यं कल्पितमिति कथं न कल्पनागुरुत्वम् ? तदुक्तम्(श्लो-वा-स्फोट 90)
* एषः-संस्कारः। एषः-स्फोटः ॥ .. * इदं च संस्कारस्यार्थप्रतीतिहेतुत्वकल्पनपक्षाभिप्रायेण ।। * पूर्वपूर्वसंस्कारस्येति शेषः॥
$ सिद्धे वस्तुनि अतिरिक्तधर्ममात्रकल्पनमन, भवतस्तु धार्मिणोऽपि कल्पनम् । इद सर्व संस्कारस्यार्थप्रत्ययहेतुस्वपक्षे। स्मृतिहेतुत्वपक्षे त्वस्यापि नावकाशः॥
• अपूर्वस्य-सूक्ष्मस्य स्फोटाख्यस्य ॥
1 कारणिका-च,
मधिकम-च.