________________
165
षष्ठमाह्निकम् स *कार्यभेदोऽपि नोत्पत्तौ कारणान्तरं मृगयते। कार्यभेदश्चास्य तथा दर्शनादवगम्यत इत्युक्तम् ।।
[ संस्कारस्य स्मृतिमानजनकत्वेऽप्यदोषः] अथवा किमनेन निर्बन्धेन। न साक्षादर्थप्रतीतिकारी संस्कारः । स्मृतिद्वारेण तां करिष्यति। पूर्ववर्णेषु संस्कारात् स्मरणम् , अन्त्यवर्ण श्रोत्रेन्द्रियादनुभव इत्येवं स्मर्यमाणानुभूयमानवर्णकरणकोऽर्थप्रत्ययः - स्यात् । को दोषः ? .
ननु अनुभवक्रमाहितसंस्कारसामर्थ्यमनुरुध्यमानाः स्मृतयोऽपि क्रमणोत्पत्तुमर्हन्ति, न युगपदिति । ततश्च प्राक्तन एव दोषः, सामस्त्या. भावादिति नैष दोषः-नानावर्णविषयैः क्रमभाविभिरनुभवैः क्रमोपचेयात्मा, पुटपाकैरिव कार्तस्वरस्य, एक एवात्मनः संस्कारः तादृगुपाधीयते, येन सर्वानेव पूर्वदृष्टान् वर्णानसौ सकृत् स्मरतीति ॥
संस्कारात् संस्कारोत्पत्तिरलौकिकीति चेत्-नालौकिकी, स्वाध्यायाध्ययने सिद्धत्वात्। उच्चारणक्रियायाः क्षणिकत्वात् तदाहिते संस्का
रान्तरकारिणि संस्कारेऽनिष्यमाणेऽन्त्यमुच्चारणं प्रथमोच्चारणान्न विशि• ष्यतेति। ततः किम् ? पुरुषायुषेणापि नानुवाक एवामुखीक्रियेत ॥
[सिद्धान्त एवं कल्पनालाघवम् ] ननु ! अयमीदृशः प्रकारः एकस्मरणसिद्धये कल्पनीयः, अर्थप्रतीतिहेतुता वा संस्कारस्य कल्पनीयेति सर्वथा चेयमदृष्टकल्पना। अतो न
.. कार्यविशेषः अनुभवरूपः ॥
* प्रथम एकवर्णविषयकः; ततः वर्णद्वयविषयः एवमुपचीयमानः॥
__1 धनेन-ख,
क्रमवि-च.
.