________________
164
न्यायमञ्जरी
कारणं, स संस्कारः । सा च स्मृत्यैव कार्येण कल्प्यमाना शक्तिः । न च शक्तिरूपस्य संस्कारस्य शक्त्यन्तरमर्थप्रतीतिजन्मनि संभवति । येनैव कार्येण सा शक्तिः कल्पिता, तदपहाय किं कार्यान्तरं कुर्यात् ? स्मरणहेतोश्च संस्कारस्य प्रसवकारणतनुभवः । * अनुभवहेतोस्त्वस्य नूतनचरितस्य संस्कारस्य जन्मनिमित्तमेव नोत्पश्यामः । तस्मान्नासावर्थ प्रतीतिहेतुर्भवति ॥
न
नैतत्सारम् - वर्णानुभवसंस्कृतमतेः पुंसः अर्थप्रतीतिदर्शनात् । हि स्मरणशक्तिः संस्कारः । किन्त्वात्मगुणो वासनाख्यः । स च स्मृतिमिवार्थप्रतीतिमपि जनयितु' मुत्सहते' । सर्वत्र नो दर्शनं प्रमाणम् । स्मरणजननकौशलमपि तस्य तथा दर्शनादवगम्यते । तदिदमनुभवजननमपि ततो दृश्यत एव । वर्णाश्च तदनुभवाश्च व्यतीताः अन्यच्च शब्दतत्त्वं नानुभूयत इति वक्ष्यामः । अस्ति चार्थप्रतीतिः । नासौ निष्करणिका स्यात् । करणव्यतिरेकेण हि सानुद्भवन्ती करणमाक्षिपति । यदस्याः करणं, स संस्कार इति स्मृतिरिवार्थप्रतीतिरपि तत्कार्यत्वात्तदनुमापिका भवत्येव ।।
[ संस्कारस्यानुभवजनकत्वेऽविरोधः ]
यत्तु कुतस्तादृशः संस्कार उदेतीति- जडप्रश्नोऽयम्, अनुभवहेतुकस्य सुप्रसिद्धत्वात् । तथा चाहुः - 'वस्तुधर्मो ह्येषः, यदनुभवः पटीयान् स्मृतिबीज माधत्ते' इति ॥
ननु स्मृतिबीजमिति यदुच्यते, तत् कथमनुभवबीजं स्यात् ? नैष नियम :- स्मृतेरेव बीजमिति । अनुभवस्तावत् तथाविधमात्मधर्ममाधत्ते ।
+ अनुभव:- शाब्दबोधात्मकः ।।
*
तादृशः - अनुभवजन्यस्सन् अनुभवहेतुः ॥
मर्हति च