________________
163
षष्ठमाह्निकम्
[क्रमविशिष्टतावद्वर्णविषयकं सङ्कलनाज्ञानम् ] , ननु ! संकलनाप्रत्ययेऽपि यदि ते वर्णाः क्रमेणावभासन्ते, तदसावपि पूर्वोत्पन्नैकैकवर्णबुद्धिनिविशेष एव स्यादिति तदुपारूढा अपि वर्णा नार्थप्रतीतिहेतवो भवेयुः। यदि त्वेकसुमनस्तबकाका रवती स प्रत्ययः, तदा तस्मिन् क्रमानवगमात् विपरीतकमा अपि* ते वर्णा अर्थप्रतीतिकारिणः स्युः- उच्यते-विशिष्टानपूर्वोकवर्णमालाऽनुभवसमनन्तरभावी हि संकाल'नाप्रत्ययोऽर्थप्रतीतेर्हतुः, न स्तबकाकारपरिच्छेदमात्रम्। विपरीतक्रमाशङकनं च तदानीं कुतस्त्यम् ? स्तबकावभासे तावत् क्रम एव नास्ति। कस्य वैपरीत्यमवैपरीत्यं वा, यदनन्तरजन्माऽयं समुच्चयप्रत्ययः । ताश्च विशिष्टक्रमावभासिन्य एव पूर्वभाविन्यो वर्णबुद्धय इति कुतो वैप त्यविकल्पः? तस्मात् प्रथमपरिपठन नियतानुपूर्वोकास्ते तदनन्तरभाविसमस्तावभास्सिंकलनाप्रत्ययोपारूढा वर्णा · अर्थप्रतीतिकारिणः स्युरिति न दोषः ।
यथा वा पूर्ववर्णजनितसंस्कारसहितोऽन्त्यवर्ण इति तत्रभवता मीमांसाभाष्यकृतावणितं (शा-भा-1-1-5), तथा वर्णानामर्थप्रत्यायकत्वमस्तु॥
__ [संस्कारस्य गुणत्वं, अर्थप्रतीतिहेतुत्वं च] ननु ! अत्रोक्तं संस्कारस्यार्थप्रतीतिजनकत्वं न दृष्टपूर्व, स्मृतावेव तस्य व्यापार इति - किमियं राजाज्ञा - स्मृतिरेव संस्कारेण कर्तव्येति ॥ - नेयं राजाज्ञा, नयाज्ञात्वेषा। न हि संस्कारो नाम स्वतन्त्रः कोऽपि धर्मों। किन्तु पट्वभ्यासादरप्रत्ययगृहीतेष्वर्थेषु यत् आत्मनः स्मरण
* तावताऽपि तस्य सर्ववर्णविषकत्वात् ॥ * शाब्दबोधात्पूर्वभाविन्यः॥
1 ल्प-च,
रावभास-क,
3 मावगम-ख