________________
162
• म्याथमञ्जरी
वर्णानामपि, गमनक्रियाक्षणानामिव ग्रामप्राप्तौ ग्रासानामिव तृप्तौ संस्थानामिवामुखीकरणे यद्यपि क्रमोपचीयमानतत्कार्यमात्रसमुत्मेषो नास्ति ; तथापि तदौ' पयि कस्योपलब्धि संस्कारादिकार्यस्य करणात् तत्कार्यावयवस्तावत्कृतो भवतीति न समस्तानां क्रमकारित्वमपहीयते । तत्र पूर्वे वर्णा अतीता अप्युपकरिष्यन्ति *, चरमवर्णस्तु वर्तमान इतीदृश एवायं काल्पनिक क्रियाक्षणसमूह इव वर्णसमूहोऽर्थप्रत्यायकः ॥
[ संकलनाज्ञानस्यापि संभवोपपादनम् ]
अथवा मोपलब्धेष्वपि वर्णेषु मानसमनुव्यवसाय रूपमखिलवर्ण विषयं संकलनाज्ञानं यदुपजायते, तत् अर्थप्रत्यायनाङ्गं भविष्यति । दृश्यते च विनश्वरेष्वपि पदार्थान्तरेषु क्रमानुभूतेषु युगपदनुव्यवसायों' मानसः 'शतमात्राणि भक्षितवान् देवदत्तः' इति । न चायं प्रत्ययो न नास्ति, सन्दिग्धः, बाध्यते वा । अनभ्युपगम्यमाने चेदृशि समुच्चयज्ञाने तन्निबन्धना भूयांसो व्यवहारा उत्सीदेयुः ॥
स चायं संकलनाप्रत्ययः स्मर्यमाणानुभूयमानप्राक्तनान्त्यवर्णविषय तया सदसद्वर्णगोचर चित्ररूप उपेयते । यदि वाऽन्त्यवर्णेऽपि तिरोहिते भवन् असद्वर्णगोचर एव चित्राकारः सोऽर्थप्रतीतिहेतुरेक एवेति निरवकाशा व्यस्तसमस्त विकल्पाः ||
* घण्टाताडनादौ दश, एकादशेत्यादि संख्यागणनायां अयमंशः स्पष्टः । उपरितनग्रन्थे अयमंशः व्यक्तः ॥
+ स्मर्यमाणानुभूयमानवर्णविषयकत्वकल्पनाक्लेशः अस्मिन् कल्पे नास्ति । आहत्य सर्ववर्णविषयकं एक मानसिकं ज्ञानमेव भवतु बोधजनकम् ॥
पाधि-क.