________________
षष्ठमाह्निकम्
161 यद्येवमाग्नेयादिभ्यस्तहि क्रमेण निर्वय॑मानं कि कार्यमुपलभ्यते ? अवान्तरापूर्वमिति ब्रूमः, शब्दप्रामाण्यात्। परमापूर्वनिर्वृत्तिस्तु तेषां सामस्त्ये सति सेस्यतीति-उच्यते। *अवान्तरापूर्वनिर्वृत्ताविदानी क्रमभाविनामाग्नेयावयवभूतक्रियालगानां किमवान्तरं कार्य का वा तस्य निर्वृत्तिरुपलभ्यते ?
[वर्णानां क्रमेणार्थबोधनसमर्थनम् ] . 'अपि च यथाभिमतं यत् कार्य, तदभिसन्धानेन प्रवृत्तिः । तत सामस्त्यात्पूर्वं न क्वचिदुपलभ्यते । न ह्यवान्तरापूर्वेण
स्वर्गमात्रा काचिदभिनिर्वय॑ते, शास्त्रार्थस्य तदानीमनिष्पन्नत्वात् । अतः किमवान्तरापूर्वेण कृतेनापि। यत्किचित्ववान्तरापूर्वप्रायं कार्य वर्णेष्वपि न न दर्शयितुं शक्यते। किं तदिति चेत् - स्वरूपग्रहणं संस्कारो वा भविष्यति ॥ . तयोः प्रधानकार्यावयवत्वं नास्तीति चेत्—मा भूदनयवत्वम् , तदुपयोगिता तु विद्यत एंव। अवयवावयविव्यवहारस्तु अवान्तरपरमापूर्वयोरपि दुरुपपादः। पदानां तु वाक्यार्थप्रितिपत्तिलक्षणप्रधानकार्यावयवभूतपदार्थज्ञानाख्यकार्यनिर्वर्तकत्वमतिस्पष्टमस्त्येवेति न तेष्वेष दोषः प्रादुष्यात् ॥
* आग्नेयादिमिरवान्तरापूर्वनिर्वृत्तिर्वकव्या चेत् , आग्नेयाङ्गभूतबीयवहननादिक्रियाभिः प्रथमं किं कार्य निर्वयंत इति वक्तव्यम्। आहत्यावान्तरापूर्वनिर्वृत्तिश्चेस्प्रकृतेऽपि समानम् ॥
* स्वर्गसाधनत्वेन ज्ञात्वा तत्र प्रवर्तते, न तु अवान्तरापूर्वसाधनत्वेन | * स्वर्गमात्रा-स्वर्गलेशः॥
एष दोषः-अवान्तरापूर्वपरमापूर्वयोर्लेशतोऽपि संबन्धानवगमरूपः ॥
1 न-ख,
व-च,
11