________________
160
न्यायमञ्जरी तथा क्रमभाविनोऽपि समस्ता ग्रासा एकां तृप्तिमुत्पादयन्तो दृश्यन्ते। एकस्मिन्नपि हि ग्रासे हीयमाने न भवति तादृशी तृप्तिः। अतः समस्ता एव ते ग्रासाः तृप्तेः कारणम्। न च समस्ता अपि ते ग्रासा युगपत्प्रयोक्तुं शक्याः॥
तथा एकानुवाकग्रहणे *संस्थानां क्रमभाविनीनामपि सामस्त्ये सति सामर्थ्यम्। एकया संस्थया 'त'दामुखीकरणासंभवात्। एवं तावल्लोके सामस्त्यं क्रमभाविनां दृष्टम् ॥
वेदेऽपि 'दर्शपूर्णमासाभ्यां' इतीतरेतरयोगशंसिना द्वन्द्वन समर्पितसाहित्यानां आग्नेयादियागानां पक्षद्वारे प्रयोज्यत्वेन चापरिहार्यक्रमाणा मेकाधिकारसंपादकत्वं दृष्टम् । तथा 'ऐन्द्रवायवं गृह्णाति' 'आश्विन गृह्णाति' इति सोमग्रहणाभ्यासानां समस्ताना क्रमभाविनां च एकप्रधान निर्वर्तकत्वं दृष्ट मिति । अतश्च नायं विरोधः-सामस्त्यं क्रमभावित्वं चेति ॥
एवं क्रमवतिनोऽपि वर्णा एवार्थाभिधायिनो भविष्यन्ति ।
[वर्णानां क्रमेणार्थप्रत्यायकत्वेऽविरोधः] नन ग्रास संस्थादीनां युक्तं समस्तानां क्रमभावित्वम् । यतः कार्यमपि तदीयं तृप्त्यादि क्रमेण निर्वय॑मानं दृश्यते । वर्णेभ्यस्तु क्रमेण श्रूयमाणेभ्यः न यावती, तावती अर्थावगतिमात्रा निर्वय॑माना दृश्यते ।।
* संस्था-धारणा । प्रकृते तदुपायः ।।
पक्षद्वये-शुक्लपक्षकृष्णपक्षयोः। दर्शयागे त्र्यः, पौर्णमास्यां यश्च विहिताः॥
1 विना त-ग,
इ-क,
म-घ.