SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 159 षठमाह्निकम् [स्फोटवादोपसंहारः] तस्मादेकक्रमविरहितः कल्पितासद्विभागः वाक्यस्फोटो जनयति मति तादृशीं स्वाभिधेये । वर्णास्त्वेते प्रकृतिलघवः कल्पनैकप्रतिष्ठाः। तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ॥ - स्फोटवादोपसंहारः - [स्फोटवादनिराकरणम् ] अत्राभिधीयते – किमयमनुमानमहिम्ना स्फोटाभ्युपगमः, प्रत्यक्ष. प्रतीतिबलवत्तया वा? न तावदनुमानतः स्फोटस्वरूपमुपपादयितुं पार्यते। परिदृश्यमानविशिष्टानुपूर्वोकवर्णकलापकरणेन अर्थप्रतीतेर्घटमानत्वात् ॥ वर्णानां वाचकत्वसमर्थनम्] ननु व्यस्तसमस्तादिविकल्पैरुत्सादितं वर्णानां वाचकत्वम्-नैतत्; दुर्विकल्पास्ते-व्यस्तानां तावद्वाचकत्वं नेष्यत एव वर्णानाम् । समस्ता एव ते वाचकाः।। - यत्तु-तत्सामस्त्यं नास्ति, क्रमभावित्वादिति (पुट )-तदसत्क्रमभाविनामपि समस्तानां कार्यकारिणां अनेकशो दर्शनात् । यथा युगपद्धाविनः समस्तास्त्रयो ग्रावाणः कां *नासां धारयन्तो दृश्यन्ते ॥ * 'अधस्तादारुणि शिला, नासा दारूपरि स्थितम्' इत्यमरः (पुट-13) द्वारोपरितनशिला। इतरपार्श्वत्रयस्थितशिलामिः । यते।। 1 विष्टाः -घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy