SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 158 न्यायमञ्जरी 'केवलं बुद्धयुपादाना क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते' इति ॥ या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशसंविद्रूपा वाक् , सा पश्यन्तीत्युच्यते । तदुक्तम् .. 'अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी' इति ॥ . तदलमतिप्रसक्तानुप्रसक्त्या। द्राधीयसी चर्चेयं प्रकृतान्तरायकारिणीति न प्रतन्यते ॥ . [सर्व व्यवहारमात्रम् ] इह त्वेतावतैव पुनः प्रयोजनं-वर्णपदपूर्वको व्यवहारः न भवतीति । वाक्येन लोके व्यवहारात् , तस्य चावयवावयविव्यवस्थाऽनुपपत्तेः निर्भा. गमेव तत् वाचकं, निर्भागश्च तस्य वाच्यो ऽर्थ इति । अवान्तरवाक्यमपि प्रयोगयोग्यं व्यवहारकारणमिति तन्न नितूयते। अविद्यावस्थेयं वर्तते । तत्रेयं व्यवहारवर्तनी यथादृश्यमानैवास्तु। विद्यायां सर्वमेवे दमसार'. मिति* || पदेन तु वर्णेन वा व्यवहाराभावात् , तस्य केवलस्याप्रयोगात तत्स्वरूपमस्यामपि दशायां न वास्तवमिष्यत इति ।। * शून्यविवर्तवादः, विज्ञानविवर्तवादः, शब्दविवर्तवादः, ब्रह्मविवर्तवादश्चेति चत्वारो विवर्तवादाः प्रायः शब्दभेदमात्रे पर्यवस्यन्ति । निरूपणप्रक्रिया तु समाना ॥ वाक्यमेव कल्पितं चेत् किमु वक्तव्यं प्रत्येकपदानां वर्णानां वा ! ___1 द समान-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy