________________
माह्निकम्
157
विवर्तते * । न तु वाचकाद्विभक्तं वाच्यमपि नाम किंचिदस्ति । तस्मात् काल्पनिक एव वाच्यवाचक विभागोऽयमविद्यैव विद्योपाय इत्याश्रीयते । वानूपता तत्त्वम्, सर्वत्र प्रत्यये तदनपायात् । यथोक्तम ( वाक्य - 1-125 ) -
“वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवर्माशिनी" इति ॥
[ वाक्तत्वप्रभेदः ]
सा चेयं वाक् त्रैविध्येन व्यवस्थितैवावभासते - वैखरी, मध्यमा, पश्यन्तीति । तत्रेयं स्थानकरणप्रयत्नक्रमव्यज्यमानगकारादिवर्णसमुदायात्मिका या वाक्, सा वैखरीत्युच्यते । विखर इति देहेन्द्रिय सङ्घात उच्यते । तत्र भवा वैखरी । तदुक्तम्
"स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना" इति ॥
या पुनरन्तस्संकल्प्यमानक्रमवती श्रोत्रग्राह्यवर्णरूपाभिव्य क्तिरहिता वाक् सा मध्यमोच्यते । तदुक्तम्
* विविध प्रतीयते । विविधं परिणमत इति वा । वाक्यपदीये विवर्तपरिणामशब्द पर्यायता प्रयुक्तौ ॥
+ विद्योपायः - ज्ञानसाधनम् । असत्यात्सत्यसि द्वेरिदं मूलम् ॥
* प्रत्यये प्रतीतौ । 'न सोऽस्तिप्रत्ययो लोके यश्शब्दानुगमादृते' इति
हरिः ॥
$ ज्ञानं जातमपि 'घटोऽयं' इत्यादिप्रत्यवमर्शः यावन्न जात, तावत् अर्थ - प्रकाशात्मकमपि तत् न तथा ज्ञायेत । व्यवहारानुगुण्यापादनमेव ज्ञानकृत्यम् ॥ • परासंज्ञकस्तु शब्दः अनिर्वचनीय इत्यदभिप्रायेणात्र नोक्तः ।।
1 धूं-घ