________________
156
न्यायमञ्जरी तेषां रूपम्। अतः काल्पनिकमेव तत, न वास्तवम् । न च निश्चेतुमपि तत् पार्यते । 'कालेनदन्तिनागाः' इत्यत्र कीदृशः पदविभागः ? अर्थ द्वयोपपत्तेः। उभयत्र च वर्णतुल्यत्वात् । किं कालेन-कृष्णेन दन्तिना -हस्तिना 'अगाः-त्वं गतः—इत्मवमेतानि पदानि व्यवस्थाप्यन्ताम् , अथ काले-समये, नदन्ति-शब्दायन्ते - नागा-करिणः फणिनो वेति । तस्मा दनियमात् न पदतदर्थविभागः पारमार्थिकः ॥
अथ प्रथमप्रतिपन्नवाक्यार्थानुसारेण पदतदर्थविभागो व्यवस्थाप्यते, तहि किं तेन तदानी व्यवस्थापितैन ? वाक्यार्थस्य प्रथममेव प्रतिपन्नत्वात् ||
किंच दध्यत्र मध्वत्रेति दधिमधुपदयोरिकारोकारयो रदर्शनेऽपि तदर्थसंप्रत्ययो दृश्यते । तस्मादपि न पारमार्थिकः पदवर्णविभागः । निरस्तावयवं वाक्यं तथाविधस्यैव वाक्यार्थस्य वाचकमिति सिद्धम् ॥
[स्फोटस्य परमतत्त्वरूपत्वम् ] ननु यथा पदेषु वर्णा न सन्ति, वाक्येषु पदानि न सन्ति, तथा महावाक्येष्ववान्तरवक्यान्यपि न स्युः। ततः किम् ? महावाक्यान्यपि प्रकरणापेक्षया न तात्त्विकानि स्युः । ततः किम् ? *प्रकरणान्यपि शास्त्रापेक्षया न स्युः । ततोऽपि किम् ? एकमेवेदं शास्त्रतत्त्वमविभागमद्वयमापतति ॥
उच्यते-यदि तत्त्वं पृच्छसि, बुद्धयसे 'वा–तदा एवमेवैतत्' साधो ! शब्द ब्रह्मैवेदमद्वयमनाद्यविद्यावासनोपप्लवमानभदमर्थभावेन
__ * प्रकरणे निर्दिष्टविषयकम् । शास्त्रं तु समग्रम् ॥
1 अगास्त्वम्-ख, । शास्त्रे-घः
नि-घ,
ई-घ,
वा-ख,