________________
पठमाह्निकम्
155 स्वरूपसत्यानि* तानीति चेत्-न-रेखारूपतया 'तेषामा प्रति पादकत्वात्। गकारोऽयमित्येवंगृह्यमाणा रेखा अर्थप्रत्ययहेतवः। ता.
येन रूपेण सत्याः, तेन नार्थप्रदिपादकाः ; येन चार्थप्रतिपादकाः, तेन न सत्या इति ॥
[प्रकृतिप्रत्ययादिविभागानामपारमार्थिक त्वम् ] . ननु प्रकृतिप्रत्ययाद्यंशा अपि परमार्थसन्त एवं ; तथा प्रतिभासात्, .अर्थप्रत्ययहेतुत्वाच्च-नैतदेवम् - अन्वाख्यानभेदेन तेषां स्वरूपेणेयत्तानिश्चयानुपपत्तेः । भवतीत्यत्र भूशब्दः प्रकृतिः क्वचिदन्वाख्यायते, क्वचिद्भव शब्दः । प्रत्ययादेशागमगुणवृद्धिवर्णलोपाद्यन्वाख्यानवि संवादात् कः पारमार्थिकः प्रकृतिप्रत्ययविभागः? कल्पनामानं त्वेतत् इयं प्रकृतिः, एष प्रत्यय इति। एवं पदार्थानामपि वाक्यार्थपरिकल्पनयैवापोद्धारः। तदुक्तम् (वाक्य-3-1). .'पदं कैश्चिद्विधा भिन्नं चतुर्धा पंचधाऽपि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत्' इति ।
[पदानामपि अपारमार्थिकत्वम् ] अपि च पारमार्थिकत्वे पदानां नियतमविसंवादिरूपं प्रतीयेत विसंवादि तु तत्। नामाख्यातसाधारणवर्णसन्निवेशदर्शनात् न नियत
* अलिदंशभ्रमः खलु सत्य एव । रेखा अपि सत्या एव ॥
येन-रेखात्वेन। येन च-वर्णत्वेन ॥ अलिदंशभ्रभेऽपि, भ्रमत्वेन न तस्य मरणहेतुत्वम्। अपि तु प्रमात्त्वभ्रान्त्यैव ॥
* भव इव आचरति भवति इति क्विप् ॥ 'भवति' इति तिङन्तमपि, भवच्छब्दः सप्तम्यन्तमपि॥
1 तेषां-घ,
द्भाव-फ,
'द-घ.