________________
154
न्यायमञ्जरी प्रयोगार्हमिति तत्रैव व्युत्पत्तिः। तत एवार्थसंप्रत्ययः। * अवयवप्रतिभासस्तु भ्रममात्रम्। अर्थोऽपि वाक्यस्य एक एव नरसिंहाकारः । जात्यन्तरं हि नरसिंहो नाम । तत्र न नरार्थः, नापि सिंहार्थः ॥
[वाक्यार्थस्याप्यखण्डत्वम् ] एवं पदार्थेभ्योऽन्य एव वाक्यार्थः, पानकादिवत् । यथा पानकः शर्करानागकेसरमरीच्यादिभ्योऽर्थान्तरमेव, यथा च सिन्दूरहरिताललाक्षादिभ्योऽर्थान्तरमेव चित्रम् , यथा वा षड्जर्षभगान्धारधैवतादिभ्योsर्थान्तरमेव ग्रामरागः; तथा पदेभ्यो वाक्यम् , पदार्थेभ्यो वाक्यार्थः ॥
कथं तहि तदंशावगम इति चेत् ; कल्पनामात्रं तत्, नासौ परमार्थः। तच्छब्दानुगमे तदर्थानुगमदर्शनात् पारमार्थिकत्वं भागानामिति चेत्-न-कूपसूपयूपानामेकाक्षरानुगमेऽप्यनुगमाभावात् ॥ ____ न च केवलानुगममात्रेण तत्कारणभावो वक्तुं शक्यः, रेणुपटलानुगामि तया करितुरगादिवत् पिपीलिकापङक्तेरपि दृश्यमानायास्तत्कारणत्वप्रसङगात्। तस्मात् प्रकृतिप्रत्ययांशवत् असत्पदार्थपरिकल्पनं वाक्यार्था वगमोपायतयाऽऽश्रीयते, न त्वर्थस्तदीयः तत्राश्वकर्णादिवदुपलभ्यते ॥
[असत्यानामपि सत्यप्रत्यायकत्वम् ] . असत्यमपि सत्योपायतां प्रतिपद्यमानं दृश्यते। . अलीकाहिदंशादय: सत्यमरणकारणं भवन्ति । लिप्यक्षराणि चासत्यान्येव सत्यार्थप्रतिपत्तिमादधति ॥
"अवयवः-पदादिरूपः ॥
तदंशावगमः-तदंशतया प्रतीतिः ।।
६ करितुरगादौ गच्छति रेणुरुत्तिष्ठति । तत्रैव मार्गे अकस्मात् पिपीलिकाऽपि गच्छति । अत्र पिपीलिकापि रेणू द्गमहेतुस्स्यात् ।।
1 थे-क,
'मि-क.