________________
पठमाह्निकम्
153 [वाक्यस्फोटनिरूपणम् ] . आह-यदि निरवयवः स्फोटात्मा शब्दो भवति, * वाक्यमपि शब्द एव। तस्य पदात्मकास्त्वयवा मा भूवन् । तस्य चेत् पदात्मानोऽवयवा भवन्ति, पदस्यापि तर्हि वर्णात्मा नोऽवयवा भवन्तु-उच्यते-किंचिदुच्छ्वसितमिव मे हृदयम्। मन्ये भविष्यत्यायुष्मतो विवेकालोकः । बोध्यमानो भोत्स्यसे किंचित् । ध्वन्यपाधिभेदप्रवृत्तवर्णभेदावभासविप्रलब्धबुद्धि भवद्विधं बोधयितुं पदस्फोट एष निरवयवोऽस्माभिर्दशितः। परमार्थतस्तु पदस्फोटो वाक्या वयवभूतो नास्त्येव। निरवयवमेव वाक्यं निरवयवस्यैव वाक्यार्थस्य बोधकम्। यथा पदस्यावयवा न सन्ति, तथा वाक्यस्यावयवाः पदानीतिः। तथा चाहुः-वाक्ये पदानाम सत्त्वात् तदर्थे पदार्थानां निरवयवौ वाक्यवाक्यार्थाविति ||
___ अवयवकल्पनायां हि यथा वाक्यस्यावयवाः पदानि, पदानामवयवा वर्णाः, एवं वर्णानावप्यवयवैर्भवितव्यम्। तदवयवानामप्यवयवान्तररित्यानन्त्यात् का व्यवस्था स्यात्। वर्णान् प्राप्य तु यद्यवयवकल्पनातो विरन्तव्यं, तद्ववक्य एव विरम्यताम् ॥
- [वाक्यस्यारुण्डत्वम् ] एकघटनाकारा हि वाक्यार्थबुद्धिः तथाविधादेव वाक्यादुत्पत्तुमर्हति वृद्धव्यवहाराद्धि शब्दार्थे व्युत्पद्यन्ते व्यवहर्तारः । तत्रास्य पदस्य प्रयोग एव न केवलस्य दृश्यते, व्यवहारानङगत्वात् है। वाक्यं तु
- * वाक्यस्फोटः, पदस्फोटः, वर्णस्फोटः इत्यनुक्रमश्चत् वर्णपक्षेऽपि इदं समानमेव । अतश्च पूर्वोक्तकल्पनाद्वयानतिपातः ॥
*'न सन्ति' इत्याकर्षः॥ * न हि पदेन व्यवहरन्ति, अपि तु वाक्येन ॥
1 त्म-ख,
व-घ,
३ सत्त्वं त-ख. .