________________
152
[स्फोटस्य प्रत्यक्षत्वसाधनम् ]
आह— किमिदमपूर्वं तस्कराचरितं वर्तते - वर्णाः प्रत्यक्षमुपलभ्य माना अपि * दुर्भगाः न प्रत्यक्षाः, स्फोट: पुनरनवभासमानोऽपि * सुभगः प्रत्यक्ष इति उच्यते न ब्रूमः वर्णा न प्रत्यक्षा इति । ते पुनरसन्तोऽपि उपाधिवशाद्वदनदैर्घ्यादिवदवभासन्ते । शब्दस्त्वेको निरवयवः प्रतीयते । तथा च पदमिति वाक्यमिति एकाकारा प्रतीतिरस्ति । न च भिन्ना वर्णास्तस्या 'माल' म्बनीभवन्ति । न हि सामान्य ' प्रत्ययः व्यक्त्यालम्बनः, अवयविप्रत्ययो वाऽवयवालम्बनः । न च सेनावनादिबुद्धिवदयथार्था पदवाक्यबुद्धिः, बाधकाभावात् ॥
[ पद वाक्यार्थबुद्धीनामैक्यं नौपाधिकम् ]
एकार्थप्रत्ययवत्त्वोपाधिकृतेयमेकाकारा बुद्धिरिति चेत् — एकार्थ :प्रतीतिरिदानों कुतस्त्या ? पदवाक्यप्रतीतिपूर्विका हि पदार्थवाक्यार्थप्रतीतिः, पदार्थवाक्यार्थप्रतीत्याख्यकार्येक्याच्च पदवाक्य बुद्धिरेकाकारेति दुरुत्त' रमितरेतराश्रयत्वम् ॥
औपाधिकत्वं च सामान्यावयविबुद्धेरपि सुजवम् । बाधसंदेहरहित प्रतीतिदाढर्यात् तत्र परिहार इति चेत् - तदितरत्रापि समानम् । तस्मात् पदबुद्धेः पदस्फोट:, वाक्यबुद्धेव वाक्यस्फोटो विषय इति प्रत्यक्ष एव स्फोटः । तत्र पदस्फोटात् पदार्थप्रतिपत्तिः, वाक्यस्फोटाच्च वाक्यार्थ प्रतिपत्तिः ॥
* दुर्भगाः - दौर्भाग्यवन्तः । सुभागः - सौभाग्यवान् ॥ + पूर्वोक्तप्रत्येक समुदायविकल्पदुष्टत्वात् ॥
2 ल-क,
3 प्र-घ
न्यायमञ्जरी
3
द्ध-क.