________________
. षठमाह्निकम्
151 _ [ध्वनेः स्फोटव्यञ्जकत्ववर्णासत्यस्वपक्षः] अपरे तु वदन्ति-ध्वनय एव स्फोटस्य च व्यंजकाः। तैश्च मरुद्भिः अनवयव एव एष स्फोटोऽभिव्यज्यमानः ताल्वादिस्थानकरणसंयोगोपाधिवशोपप्लवमाननानाकारगकारादिभागयोगीव प्रतिभासते। मरुतां चंचलत्वादुच्चारितप्रध्वंसिनस्ते तं काल्पनिकाकारमवभासयन्ते । दृष्टं चोपाधिवशादसत्यमपि रूपमवभासमानम्। यथा-कृपाणमणिदर्पणादिव्यंजक भेदेन श्यामदीर्वादिरूपं वदनस्य। नादात्मको हि शब्दः वोगावेणुमृदङगपटहादिव्यंजकभेदेन नानात्वमुपगच्छन् दृश्यते। तस्मान पारमाथिका एव ते वर्णाः, न च स्फोटम्य व्यंजका इति क्व समस्त व्यस्तविकल्पाः प्रभवेयुः ॥
उपाधिभेदेन प्रतिभासमाना असत्याकाराश्च तेऽर्थप्रत्ययान्वयव्य ति रेकानुविधायिनो दृश्यन्ते ॥
तेन यदुच्यते शब्दकल्पनायां कल्पनाद्वैगण्यमिति-तत्रैकगुणाऽपि कल्पना नास्ति। का कथा 'द्वैगुण्यस्येति। तस्मात् स्फोटात्मकादेव शब्दादर्थप्रत्ययः । वर्णानुविधायित्वं तु तस्यान्यथासिद्धमिति सिद्धम् ॥ ____ अपि च तार्किकाणमनुमानप्रियत्वात् तत्परितोषायेदमनुमानमभ्यधायि, न परमार्थतः। परमार्थतस्तु श्रौत्रे प्रत्यये प्रतिभासमानः प्रत्यक्ष एव स्फोटः॥
* चकारात् वर्णपरिग्रहः । परन्तु वर्णा: अपरमार्थाः, स्फोटस्तु परमार्थः । मणिकृपाणाधभिव्यङ्गये मुखे सत्यस्वं, श्यामदीर्घतादावसत्यत्वमिति एकामिव्यञ्जकध्ययत्वेऽपि विशेषः स्पष्टः॥
- 1
व-क