________________
150
न्यायमञ्जरी का पुनरन्यथासिद्धिः! स्फोटव्यंजकत्वात् वर्णानां तदानन्तर्यमर्थप्रतीतेरुपप्लवते। वर्णाभिव्यक्तः स्फोटोऽर्थप्रतीति'मादधाति। भ्राम्यति जनः वरियमर्थप्रतीतिरुत्पादितेति ॥
[स्कोटवादे पूर्वोक्तदोषानवकाशः ननु स्फोटव्यक्तावप्रीदानी वर्णानां क्व गतास्ते व्यस्तसमस्त-- विकल्पाः । आह च भट्टः (श्लोवा-11-5-स्फोट-84)
'यस्यानवयवः स्फोटः व्यज्यते वर्णबद्धिभिः ।
सोऽपि पर्यनुयोगेन नैवानेन विमुच्यते' इति ।। भाष्यकृताऽपि-'ननु संस्कारकल्पनायामदृष्टकल्पना' इत्याशक्य. प्रतिविहितं *शब्दकल्पनायां सा च शब्दकल्पना च' (शा-भा-1-1-5) इति-नैषदोषः-न स्फोटव्यक्तौ विकल्पाः प्रभवन्ति । कुतः ?
एके तावदाचक्षते प्रथमवर्णश्रवणवेला यामेव स्फोटोऽभिव्यक्तो भवति । न च द्वितीयादिवर्णवैफल्यम ; तदवगतेरेवातिशयकरणात् । यथा रत्नपरीक्षकाणां प्रथमदर्शने रत्न रूपम मलमप्रकाशमानमपि पुनः पुनः परीक्षमाणानां चरमे चेतसि चकास्ति निरवद्यं रत्नतत्त्वम्-एवमि. हापि प्रथमवर्णश्रुत्या व्यक्तेऽपि स्फोटे स्फुटतरप्रतीत्य वर्णान्तराणि प्रयो'क्ष्यन्त इति ॥
__ * पदस्फोटवाक्यस्फोटाद्यभिव्यक्त्यर्थं श्रुतचराणां तेषां संस्कारस्य हेतुत्वं कल्प. नीयम् । पुनस्तैः स्फोटः, ततः शब्दबोधः । एवंचेत् संस्कारा एव शब्दबोधजनिका भवन्तु, 'तद्धे तोरेव नद्धेतुत्वे मध्ये किं तेन' इतिन्यायात् ॥
+ स्फोटस्य अखण्डत्वात् प्रथममेवामिव्यज्यते ॥
1 तिपनि-ध,
यां-ख,
म-ग,
ज्य-क.