________________
घठमाह्निकम्
149 प्रतिपादके इष्यमाणे 'शब्दात्' इति प्रातिपादिकार्थः, विभक्त्यर्थश्च द्वयमप्युपपन्नम्* ॥
[वीनामर्थबोधकत्वासंभवः] ननु ! न स्फोटः शब्दशब्देनोच्यते, किन्तु वर्णा एव । श्रोत्रग्रहणे ह्यर्थे शब्दाशब्दः प्रसिद्धः। त एव च श्रोत्रग्रहणा इति–नैतदेवम् - शब्दत्वस्यापि श्रोत्रग्रहणात्मनो भावात्। निर्झर झाङकाररवप्रभृतीनां च सत्यपि श्रोत्रग्रहणत्वे शब्दकार्यनिर्वर्तकत्वानुपपत्तेः। तस्मात् यतोऽर्थप्रतिपत्तिः, स शब्दः । अर्थप्रतिपत्तिश्च स्फोटादेव, न वर्णेभ्य इति स्फोट एव शब्दः ॥
- [स्फोटस्य शब्दात्मकत्वम् ]
ननु ! एवं सति धूमादीनामप्यथप्रतीतिहेतुत्वात् शब्दत्वं प्राप्नोति -मैवं वादी:-'अथ गौः' इत्यत्र श्रोत्रजप्रतिभासे बहवोऽर्थाः प्रतिभासन्ते, तत्र कस्तेषां शब्द:-इत्युपक्रम्प, यतोऽर्थप्रतिपत्तिः स शब्द इयुपसंहृते कुतो धूमादीनां शब्दत्वंशङकावकाशः ॥
ननु चेयमर्थप्रतीतिः वर्णेषु भवत्सु भवन्ती, तेष्वभवत्सु चाभवन्ती तानुत्सृज्य कथं स्फोटकार्यतामुपयायात्-उच्यते-अनन्यथासिद्धं तद्भावभावित्वं तत्कार्यतामवगमयति, नान्यथासिद्धम्। “इदं त्वन्यथासिद्धम ।
. * वाक्यस्फोटस्य एकत्वात् ॥ शब्दकार्य-अर्थप्रतीतिः॥
ति-श्रोत्राग्राह्यत्वेऽपि अर्थप्रतीतिजनकत्वमात्रात् 'शब्द'पद वाच्यत्वे ।।
'अथ गौरित्यत्र कः शब्दः? गकारोत्तरौकारोत्तरविसर्जनीया इत्युपवर्षः' इति शाबरभाष्यम् (1-1-5)॥
• इदं-वर्णानां अर्थप्रत्यायकत्वम् ॥
1 इत्येव-क.