________________
vii .
आपाततो दर्शने इमानि कस्यचन योगशास्त्रस्य सूत्राणीव प्रतीयन्ते । परन्तु न्यायशास्त्रममि तत्त्वज्ञानाय योगशास्त्रमेवोपदिशति इति कुतूहलावहमेव ॥ तर्कस्य स्थानं कीदृशम् ?
.. एवं तर्हि तकस्य क्योपयोग इति प्रश्नः स्यात् । इदमत्रोत्तरं चिन्तनीयम्-तर्को हि नाम न स्वतन्त्रं प्रमाणम् , न वा कस्य चनार्थस्य साधकम् ; किन्तु प्रमाणानुग्राहकमात्रम्; प्रत्यक्षादिना गृहीतेऽपि प्रमेये ग्रहणस्याभासताज्ञानादिना बुद्धौ कलुषितायां समीचीने विषये प्रमाणं प्रतिष्ठापयति कर्कः ।।
— मानवो हि बुद्धिजीवीति प्रसिद्धम् । सा तु बुद्धिः संशयविपर्ययादि रूपा अनेक विधा । अत एव सर्वानपि विषयान् संशय्य विचाराय प्रवृत्तिः मानवस्य सहजा । विचारः तर्कपरिशीलनरूपः । 'विचारशास्त्र'मिति प्रसिद्धं भीमांसाशास्त्रं तर्कपरिशीलनरूपमिति प्रसिद्धम् । एवञ्च प्रत्यक्ष परोक्षे वा विषयनिर्णये तर्कस्य स्थानं बुद्धिजीवीनः मानवस्य महत्तरमेव वर्तते ॥ तर्कः न स्वतन्त्रं प्रमाणम्- परन्तु तर्कः न प्रमाणम् , किन्तु प्रमाणानुग्राहकमात्रमिति न विस्मतव्यम् । एतदभिप्रायकमेव 'तर्काप्रतिष्ठानात्' (ब्र. सू. २. १. ११) इति व्याससूत्रमपि। परन्तु प्रत्ययक्षदृष्टऽपि विषये कुतूहलात् यथा तर्कविचारे प्रवर्तते, एवं संशयाभावेऽपि स्थूगानिखनन्यायेन दाव्य कविचारे प्रवृत्तिः मानवसहजा । परन्तु स्वतन्त्रः तर्कः नाथनिर्णायकः। अत एत मोक्षसाधनभूतं तत्त्वज्ञानं न तर्कसाध्यम् ; किन्तु समाधिविशेषाभ्यासजन्यं न्याय शास्त्रकारसंमतमिति कौतूहलमेव। साधर्म्यवैधर्म्यतत्वज्ञानं 'धर्मविशेषप्रसूतात्' इति विशिषन् कणादोऽपि एवमेव मनुत इति स्पष्टम् । सन्त्येवमेव बहवो विषयाः कुतूहलकारिणः। निदर्शनमात्रमेतावदुक्तम् ॥