________________
किं बहुना ! 'अभावः' इति न पदम् , अपि तु न-भावः-अभावः इति समस्तपदम् , वाक्यम् । अतश्च अभावः न अखण्डः पदार्थः, किन्तु वाक्यार्थः -
___ यद्यपि नञः अभावः अर्थः, अथापि सः नियतसापेक्षः, प्रत्येकं प्रयोगानहः। द्रव्यगुणक्रियाजातिवाचिपदेषु हि स नान्तर्भूतः । वाददृष्टया - बहु वक्तुं शक्यं पक्षद्वयेऽपि । प्रमेयदृष्टया तु अभावः न पदार्थः, नीलघटा. दिवत्। 'अभावः अखण्डपदार्थः' 'अभावत्वं अखण्डोपाधिः' इत्यादिकं तु. भाणितिमात्रम् । एवञ्चाभावस्य कथं पदार्थगणनायां पठनप्रसङ्गः ? दुःखध्वंसरूपत्वं मोक्षास्याचक्षाण तस्य पदार्थत्वसंपादनायानन्तरकाल एवा भावस्यातिरिक्तत्वं समर्थितमिति विमर्शकाः। वस्तुतस्तुं अभावस्वरूपं तु . कुतूहलकार्येव ॥
तत्त्वज्ञानोपायः कः?
एवमेव 'तत्त्वज्ञानान्निःश्रेयसाधिगमः' इत्यत्र तत्त्वज्ञानं ग्रन्थपठनरूपं, अथवा तच्चिन्तनापरपर्याययुक्तिपरिशीलनजन्यमित्येव बहवो मन्यन्ते । 'प्रत्यक्षपरिकलितमप्यर्थ अनुपानेन बुभुत्सन्ते तर्करसिकाः' इति हि प्रसिद्धम् । परन्तु द्रष्टव्यानीमानि गौतमसूत्राणि (अ ४. २-आह्नि.) ..
'दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः' (१) 'समाधिविशेषाभ्यासात्' (३७) 'अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः' (४२) 'तदर्थ यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः' (४६) 'ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः' (४७) तं शिष्यगुरुसंब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयुभिरभ्युपेयात्' (४८)