SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रसिद्धिः। वैशेषिकशास्त्रं तु पदार्थशास्त्रम्--प्रमेयशानं। पदार्थधर्मसंग्रहः प्रवक्ष्यते' इति हि प्रशस्तपादचार्यप्रतिज्ञापि वैशेषिकसूत्रभाष्यस्था स्पष्टयतीमयर्थम् ॥ पदार्थाः सप्त ? षड्वा ? ... वैशेषिकाः सप्तपदार्थवादिनो वा, षट्रपदार्थवादिनो वेत्येतदप्यत्यन्त कुतूहलायैव । सूत्रे षण्णामेव ग्रहणात् षट्पदार्थवाद एव प्रामाणिक इति केचित् । आमावस्योत्तरत्र निरूपणात्सोऽपि सूत्रकारसम्मत ऐवेत्यपरे । सम्मतश्चत् कुतः पूर्वमेव न परिगणित इति पूर्वे । असम्मतश्चत् कुतः अनन्तरं निरूप्यत इति अपरे ॥ अभावः पदार्थो वा? परन्त्विदमत्र चिन्त्यम्। अभावः सप्तमः पदार्थः सूत्रकारसंमतश्चत् षष्ठपदार्थस्य समवायस्य निरूपणानन्तरमेव निरूपणीयः। परन्तु न तथा : निरूप्यते, किन्तु प्रसङ्गान्मध्य एव निरूप्यते । · अतः क आशयः स्यात् सूत्रकर्तुः ? एवं स्याद्वा। द्रव्यादयः पदार्थाः, पदस्य अर्थाः। पदानि किल चतुर्विधानि। तदर्थाश्च चतुर्विधाः। एवं द्रव्यगुणादीनां भेद एव एतत्सिद्धान्तप्राणभूतो विषयः। स च 'भेद'सिद्धयधीनः : भेदसिद्धयर्थमेव विशेषाख्यः पदार्थः स्वीकरणीयः संवृत्तः। एवं भेदे सिद्धे तयोस्संबन्धानुपपत्तेः बौद्धापाटितायाः परिहाराय समवायः स्वीकरणीयः संवृत्तः। एवं षट्रपदार्थाः समाया ताः। अभावः एषु कुत्रान्तर्भवेत् । अनन्तभूतश्चेत् पदानि पञ्चविधानि वक्तव्यानि, वा ? नोच्यते केनापि । एवं सति अभावः कथं 'पदार्थः' ?
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy