________________
एतत्प्रसङ्गे एतद्ग्रन्थस्थैकेकविषयविमर्शनापेक्षया एतदर्शनक्षेत्रमधिकृत्य विमर्शनं ततोऽप्यत्यन्तं कुतूहलावहं स्यादिति भावनया कति चन विषयाः प्रस्तूयन्ते ॥ न्यायवैशेषिकदर्शने पदार्थाः ?
सप्तपदार्थवादिनः वैशेषिकाः, षोडशपदार्थवादिनः नैय्यायिका इति प्रसिद्धिः। 'द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानानिःश्रेयसाधिगमः' इति कणादसूत्रे द्रव्यादीनां पदार्थत्वं स्पष्ट मुक्तम् । युक्तं चैतत्-पदानि हि द्रव्यगुणक्रियाजातिवाचीनीति चतुर्विधानि महाभाष्यादिप्रसिद्धानि । एतन्मूलक एव बौद्धानां विकल्पचातुर्विध्यवादोऽपि । 'घटः' इत्यादीनि पदानि द्रव्यवाचीनि। 'नीलः' इत्यादीनि गुणवाचीनि । 'पाचकः' इत्यादीनी क्रियावाचीनि। 'गौः' इत्यादीनि जातिवाचीनि । एवञ्च द्रव्यादीनां पदार्थत्वं सर्वसम्मतम् ॥
न्यायसूत्रे तु 'प्रमाणप्रमेय-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः' इत्येव वर्तते । एतेषां पदार्थत्वं वा, प्रमाणत्वादीनां पदार्थविभाजकत्वं न कस्यापि सम्मतं, प्रसिद्ध वा। मुमुक्षुभिः प्रकर्षण मेयानीमानीनि प्रमेयसूत्रभाष्ये द्वादशानां प्रमेयत्वं प्रादर्शि । एवं सति 'नैयायिकाः षोडश पदार्थवादिनः, वैशेषिकाः सप्तपदार्थवादिनः' इति प्रसिद्धिः कथमायाता ? इति कुतुहलमेव ॥ प्रमाणानि कति ? ___एवमेव 'प्रमाणचतुष्टयवादिनः नैयायिकाः, प्रमाणद्वयवादिनःः वैशेषिकाः' इति प्रवादोऽपि । न्यायसूत्रे यद्यपि 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति सूत्रे स्पष्टं प्रमाणगणना दृश्यते, परं तु नैवं वैशेषिकसूत्रे दृश्यत इत्यपि कुतुहलावहमेव । न्यायशात्रस्य हि 'प्रमाणशास्त्रम्' इति