________________
यशो लभ्यते' इत्येवोत्तरं वक्तव्यमत्र । अथाप्यागच्छता कालेन विद्वल्लोकः इम ज्ञातुं प्रयतमानो दृश्यत इत्याप्याप्यायते मनः । एतद्ग्रन्थस्थविषयमधिकृत्य यद्यपि बहु वक्तव्यम् । सारतस्तु कश्ने विलक्षण एवायं रन्थः । यथा हि नवीनशास्त्रग्रन्थेषु इतरसर्वशास्त्राणां उच्चावचं खण्डनं दृश्यते, न तथात्र पश्यामः । प्रत्युत परस्परपोषणं क्रियते ?. व्याकरणशास्त्रवैफल्यमाशंक्य, विस्तरेण तत्सार्थक्यं वर्णयति जयन्तः । 'पृथक्प्रस्थाना हीमा विद्याः। प्रमाणविद्या चेयमान्वीक्षकी, न वाक्यार्थविद्या' इति न्यायमीमांसास्त्रयोः विषयभेदं स्पष्टं प्रदर्य शास्त्रमर्यादां संरक्षति जयन्त इति आश्चर्यावहम् । वाक्यशास्त्रं हि मीमांसा । ‘पदवाक्यप्रमाण' इति व्याकरणमीमांसान्यायशास्त्राणां यथासंख्यं विषयव्यवस्था । इमा मर्यादा कति वा पालयन्ति ! परस्परमर्यादामतीत्य परस्परखण्डनमेव हि मण्डनं मन्यन्ते बहवः॥
मीमांसा शास्त्रं तकरूपम्.. अत्र प्रसङ्गे इदमप्यवधेयं विमर्शकैः । पूर्वमी मांसोत्तरमीमांसा.
सूत्राणि हि नयसूत्राणि इति सर्वसंप्रतिपन्नत् । तथा च तान्यपि न्यायरूपाण्येव। एवं तर्हि कथं शास्त्रभेद इति ॥ . - सत्यम् ! वाक्यसंबन्धिन्यायानामिति विपुलत्वात् तस्य भिन्न. शास्त्रत्वमनुमतं महर्षिभिः । अपि च 'वाक्यसंबन्धिन्यायाः' इत्यत्र वाक्यं.. वेदवाक्यमेव । स न्याय: लोकेऽज्युपयुयता कामम् । शास्त्रं तु वेदवाक्यानामर्थावधारणयैव प्रवृत्तम् । भारतीयाना वेदे गौरवातिशयः सुप्रसिद्धः। एतादृशगौरवभावनया मीमांसाशास्त्रं न्यायशास्त्ररूपमपि पृथस्कृतम् । एवं शास्त्रविषयमर्यादां प्रदर्य शास्त्राणां सौहार्द संरक्षत्ययं जयन्त इत्ययमपि विशेषोऽस्य तद्ग्रन्थस्य ।।