________________
न्यायविस्तर:
- स चायं न्यायविस्तरः ग्रन्थदृष्टया महर्षिगौतमोपज्ञः वात्स्यायनोद्यो. तकरादिपोषितः, वाचस्पत्युदयनादिपरिरक्षितः सर्वेषपिव शास्त्रेषु स्वप्रभाव प्रदर्शयन् सर्व व्याप्य महान् वृक्ष इव विराजते एतद्दर्शनस्य स्वरूपवैशिष्टयादिकमधिकृत्यापि बहुभिर्बहुधा प्रपञ्चितमेव ॥
न्यायमंजरी
सूत्रभाष्यकारैः गौतमवात्स्यायनमहर्षिभिः प्रदर्शिते तर्कमार्गे, प्रमाणसमुच्चयकारेण दिडूनागेन दूषिते, तदुद्धाराय भारद्वाजेनोद्योतक रेण वार्तिकं व्यधायि । परन्तु उद्योतकरानन्तरं प्रमाणवार्तिकक; धर्मकीर्तिना वैदिकमार्गे सर्वेऽपि दूषिते, तत्परिहाराय पूर्वमीमांसाप्रक्रियामवलम्ब्य कुमारिलैः वार्तिकं यधा यि । परन्तु तत्रापर्याप्तिं न्यूननाञ्च पश्यता जयन्तेनेयं न्यायमञ्जरी व्यधायि : अत एवास्मिन् ग्रन्थे आन्तं धर्मकीर्तिप्रक्रिया खण्ड्यते तत्र तत्र, प्रदर्श्यते च न्यूनता कुमरिलवार्तिकग्रन्थे॥ जयन्तभट्टः
अप्रतिमप्रतिभाशालिन स्वायत्तसर्ववाङ्मयं जयन्तभट्ट, अथवा भट्टजयन्तं अधिकृत्य नाधिक साक्ष्यादिकं लभ्यते। यल्लभ्यते तदपि बहुभिरेतावतैव संगृहीतम्। तदीयकृतिरत्नरूपेयं. न्यायमञ्जरी स्वसौरभ सर्वत्र प्रसारयन्ती तस्य कीर्ति विस्तारयति दिगन्तेषु इति तु सन्तोषस्य स्थानम् ।।
स्वपाण्डित्येन, प्रतिभया, वश्यवाचा, धीरतादिनाऽयं ग्रन्थकारः सर्वानप्यतिशेत इति नात्युक्तिः स्यादेतद्न्थपरिशीलनरसिकानाम् । परन्तु इदमेवात्र खेदस्थानं यत्, अयं स्वस्वरूपानुगुणां कीर्ति नावहति भारतीय दर्शनक्षेत्रे, यादृर्शी वहन्ति कुमारिलोदयनवाचस्पत्यादय इति। 'पुण्य