________________
भूमि का दर्शनानि
न केवलं भारतीयवाङ्मये, विश्ववाङ्मय एव भारतीयदर्शनग्रन्थानां स्थानमानादिकं अतीवाभिनन्दनाहमिति जानन्त्येव निर्मत्सरा विश्वविद्वांसः । तदेतद्भारतीयदर्शनस्वरूपविभागादिविषये पराक्रान्तमेव बहुधा बहुभिस्सूरिभि-रिति नात्र तदधिकृत्य बहु वितन्यते । सारतस्तु-आस्तिक (वैदिक नास्तिक(अवैदिक)भेदेन दर्शनानि द्वेधा। आस्तिकदर्शनानि तार्किक. सांख्य-मीमांसाभेदेन त्रेधा । तत्र न्यायवैशेषिकभेदेन तार्किकदर्शनम्, निरीश्वरसेश्वर(योग)भेदेन सांख्यदर्शनम्, पूर्वोत्तरभेदेन मीमांसादर्शनं च प्रत्येकं द्विविधम् । एवं नास्तिकदर्शनेषु बौद्धदर्शनं वैभाषिकसौत्रान्तिक योगाचारमाध्यमिकभेदेन चतुर्विधम् । · आहत्य आस्तिकदर्शनानि षट्, नास्तिकदर्शनानि षडिति संक्षेपः॥
विद्यास्थानानि--
जयन्तभट्टस्तु'अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तारः। पुराणं धर्मशात्रं च विद्या ह्येताश्चतुर्दश ।।' 'पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मम्य च चतुर्दश ।।' इति प्राचीनमार्षक्रममनुसरन् विद्यास्थानानि चतुर्दशेति वर्णयित्वा वेदप्रामाण्यसंक्षरणार्थ न्यायविस्तरः प्रवृत्त इति वर्णयति ग्रन्थोपक्रमे ।।