________________
147 षठमाह्निकम् विधज्ञानोत्पत्तौ कारणाभावात्। न चेन्द्रियमतीतवर्णग्रहणसमर्थम्। न संस्कारो वर्तमानग्राही भवति। न च युगपदिन्द्रियं संस्कारश्चेमा बुद्धि जनयतः; संस्कारस्य सहचारदर्शना द्या हितप्रबोधस्य सतः, स्मरणमात्रजन्मनि नितिसामर्थ्यस्येन्द्रियेण सह व्यापाराभावात् । तस्मात् न वर्णा वाचकाः ॥ ____ अतश्चैवम्-यदि ते वाचका भवेयुः, *विपरीतक्रमप्रयुक्ता अप्यर्थं गमयेयुः। क्रमश्चेदपेक्ष्यते, स व्यतिरिक्ताव्यतिरिक्ततया चिन्तनीयः । अव्यतिरेके त एव ते वर्ण इति कथं न बोधकाः ? व्यतिरेके तु किमप्यधिकं वाचकं अभ्युपगतं भवतीति मत्पक्षमाजिगमिषति भवान् ॥
[ व्युत्पत्तरर्थप्रत्यायकत्वपक्षेपः] .. ननु? व्युत्पत्तिवशेन शब्दः अर्थप्रत्यायकतामुपयाति । व्युत्पत्तौ च यावन्तो यत्क्र'मा वर्णा यदर्थमभिवदन्तो दृष्टाः, ते तावन्तः तत्क्रमकास्तमर्थमभिवदिष्यन्तीति कि विकल्पमालया। तदुक्तम् (श्लो. वा. 1-1-5 स्फोटवाद श्लो 69)
'यावन्तो यादृशा ये च यदर्थप्रतिपादने । वर्णाः प्रज्ञा सामथ्यः ते तथैवावबोधकाः' इति ॥
[व्युत्पत्तिपदार्थः] तदुच्यते-व्युत्पत्तिरेवेयं विचारणीया वर्तते । परावगतिविका हि शब्दात् स्वयमवगतिः। परावगतौ च के कियन्तः कथं कमर्थं
___* विपरीतेत्यादि-विपरीतक्रमेण वर्णानामुच्चारणेऽपि समूहालम्बनात्मकज्ञाने सर्वेषां वर्णानां विषयत्वात् वाचकत्वापत्तिः॥
* प्रयोज्यवृद्धस्य प्रवृत्तिं पश्यन् बालः तस्य प्रवृत्ति प्रयोजकवृद्धवाक्यार्थ ज्ञानमूलिका जानन् हि व्युत्पद्यते ॥
__1 भ्या-क,
व्या-क,
३ मका-घ,
म-घ.