________________
146
न्यायमञ्जरी - वर्णविषया अपि बुद्धयस्तथैव विकल्पनीयाः। ता अपि न युग. पत्संभवन्ति। क्रमे च सति एकैकवर्णबुद्धेरर्थसंप्रत्ययः प्रसज्यतेति ॥
[अन्तिमवर्णस्याप्यर्थप्रत्यायकत्वासंभवः] ____ यदप्युच्यते-पूर्वपूर्ववर्णजनितसंस्कारसहितः - अन्त्यवर्णः प्रत्यायक इति तदप्ययुक्तम्-संस्कारो हि नाम यदनुभवजनितः, तद्विषयमेव स्मरणमुपजनयति, न पुनरर्थान्तरविषयं ज्ञानमिति। स्मृतिद्वारेणासौ तर्वार्थप्रत्यायकोऽसौ भविष्यतीति चेत् एतदपि नास्ति, ज्ञानयोगपद्य प्रसङगात्। अन्त्यवर्णज्ञानानन्तरं हि पूर्ववर्णस्मरणमिव समयस्मरणमपि तदैवापतति । ततश्च ज्ञानयोगपद्यम् ॥
न च क्रमोत्पादे किंचित्कारणमुत्पश्यामः। अथापि तेन क्रमेण भवेताम् , तथापि तदानीमन्त्यवर्णज्ञानमुपरतमिति कस्य साहाय्यक पूर्व वर्णस्मृतिविदधातीति ॥
एतच्चानेकपूर्ववर्णविषयामेकां स्मृतिममभ्युपगम्योक्तम् । न पुन रेका सर्ववर्णगोचरा स्मृतिः। कुतः ?
भिन्नोपलभसंभूत *वासनाभेदनिर्मिताः । . भवेयुः स्मृतयो भिन्नाः न त्वेकाऽनेकगोचराः ॥
[वर्णसंकलनाज्ञानमप्यर्थप्रत्यायकं न ] अथ वदेत् - संक'ल'नाज्ञानमेकं सदसद्वर्णगोचरं भविष्यति । तद्रूपारूढाश्च वर्णाः अर्थ प्रत्याययिष्यन्तीति तदपि दुराशामात्रम्-तथा
___ * वासना-संस्कारः। कारणानां संस्काराणामनेकरवे सति तज्जन्यस्मृतेः एकत्वं कथं संभवेदित्यांशयः॥
__+ संकलनाज्ञानं–तावद्वर्णविषकमेकं समूहालम्बनात्मकं, समुच्चयात्मकं वा ज्ञानम् । सदसत् इति तत्कालदृष्टया ॥
1
ल्प-क.