________________
145
पठमाह्निकम् मात्रेण वा स्यात् ? प्रतीयमानत्वेन वा? नैयायिकपक्षे तावत् सत्तया योगपद्यमविद्यमानम्, आशुविनाशिनः शब्दस्य दर्शितत्वात् ॥
[वर्णानां नित्यत्वेऽपि अर्थप्रत्यायकत्वासंभवः] अथापि मीमांसकमतेन नित्यः शब्द इष्यते, तत्रापि सत्तया योगपद्यस्य सकलवर्णसाधारणत्वात्* केन वर्णसमुदायेन कोऽर्थः प्रत्याय्यतेति नावधार्यते॥
अथोच्यते-न चक्षुरादीनामिव वर्णानां कारकत्वम् , 'येनागही तानामेव सतां यौगपद्यमात्रमर्थप्रत्यायनाङगं स्यात् । ज्ञापकत्वात्तेषां गहीतानां सतां धूमादिवत् प्रत्यायकत्वमिति प्रतीतावेव सामस्त्यमुपयुज्यते इति ॥
एतदप्यघटमानम्। प्रतीतिसामस्त्यं हि किमेकवक्तृप्रयुक्तानां वर्णानाम् ? उत नानापुरुषमाषितानाम् ? तत्र-एकदा अनेकपुरुषभाषितानां कोलाहलस्वभावत्वेन स्वरूपभेद एव दुरवगम इति कस्य साम स्त्यमसामस्त्यं वा चिन्त्येत ? सत्यपि वा तथाविधे सामस्त्ये नास्त्येवार्थप्रतीतिः ॥
एकवक्तृप्रयुक्तानां तु प्रयत्नस्थानकरणक्रमापरित्यागात् अवश्यंभावी क्रमः। क्रमे च सत्येकैकवर्णकरणिकार्थप्रतीतिः प्राप्नोति। न चासौ . दृश्यत इति व्यस्तसमस्तविकल्पानुपपत्तेः न वर्णा वाचकाः ॥
* वर्णानां नित्यत्वं सर्वगतत्वं चात्र हेतुः ॥ . * कारकत्वं-अज्ञातत्वेऽपि स्वरूपत एव कार्य निर्वर्तक त्वम् ॥ ___ + शाब्दबोधस्य ज्ञानरूपस्य आत्ममनस्संये.गादिरेव कारकहेतुः। वर्णस्तु ज्ञातस्सनेव हेतुः ॥
प्रतीतिः-वर्णनां ग्रहणम् ॥
1 येन-घ,
स्त्येनार्थप्रतीतिः-घ.