________________
144
न्यायमञ्जरी [स्कोटवादस्य नैयायिकप्रतिकूलत्वम् ] ननु ! एवमस्तु। स्फोटोऽन्य एवार्थ'प्रतिपादको भवतु । का क्षति यायिकानाम ? कथं न क्षतिः! आप्तप्रणीतत्वेन हि शब्दस्य प्रमाण्यं तैरुक्तम् । स्फोटस्य च नित्यत्वेन नाप्तप्रणीतत्वम। अतश्च यस्यानित्यत्वं वर्णात्मनः शब्दस्य साधितम्, नासावर्थप्रतीतिहेतुः। अतो न प्रमाणम्। यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दः, तस्य नानित्यत्वम्, न . 'चाप्त प्रणीतत्वमिति* अस्थाने नैयायिकाः क्लिष्टा भवेयुः। तस्मादनित्यानां वर्णानामेव वाचकत्वं प्रतिष्ठापनीयम्। पराकरणीयश्च स्फोट इति ॥
[वर्णा एवार्थप्रत्यायका इति प्रतिज्ञा ] तदुच्यते – गकार दिवर्णावगमे, संत्यर्थप्रतीते र्भावात, तद भावे चाभावात् तेषामेवार्थप्रत्यायनसामर्थ्यम्। त एव च श्रवणकरणकावगमगोचरतया शब्दव्यपदेशभाज इति न प्रतीत्यनुपारूढः स्फोटो नाम शब्दः कश्चित् प्रत्यक्षानुमानातीतः परिकल्पनीयः ॥
[अनित्यानां वर्णानामर्थप्रत्यायकत्वाक्षेपः ] आह-कथमेवं भविष्यति ? दूरापेता इमे मनोरथाः। कुतो वर्णानामर्थप्रत्याजकत्वम् ? ते हि वर्णा गकारादयः अर्थ प्रतिपादयन्तः समस्ताः प्रतिपादयेयुः ? व्यस्ता वा ? न तावदव्यस्ताः; एकैकवर्णाकर्णने सत्यप्यर्थप्रतीतेरनुत्पादात् । सामस्त्यं वर्णानां नास्त्येव । तद्धि सत्ता.
* शब्दनित्यत्ववत् स्फोटनित्यत्वादिकमपि न वेदप्रामाण्योपपादकम् । इतर व्यावृत्तमीश्वरोपदिष्टत्वमेव तदुपपादकं भवेत् । वेदप्रामाण्य समर्थनमेव हि न्याय शास्त्रस्य परम उद्देशः॥
1 पदार्थ-क.
चेश-क,
'भावा-घ.